________________
अपराजित पृच्छा
कर्णे च सर्वतोभद्रः केशरी प्रस्थे भवेत् ।
विजयो भद्र उत्पन्नो विजयो नाम नामतः ॥ १६ ॥ चतुर्भिः सर्वतोभद्रेर्भद्रोत्सेधस्तु कर्णवत् । उद्गमः शिखरोध्वे च भवेत्तिलकसंज्ञकः ॥ १७ ॥ नन्दिघोषः कर्णशङ्गैर्महाघोषः स उच्यते । रतिदेहेऽभित्तौ वृद्धिरामेऽण्डाश्चैकविंशतिः ॥ १८ ॥ वसुन्धरो रतिदेहे मत्तावरण कैर्भवेत् । षडः केशरी (क) मुद्गको नाम कीर्तितः ॥ १९ ॥ बृहच्छालः कमलजे प्ररथे भद्रकर्णिका ।
भद्रे शृङ्गं यदा तस्य स सुधाकर संज्ञकः ॥ २० ॥ प्रतिरथेषु सर्वेषु यदा कूटं निधापयेत् । मिश्रकस्तु स विज्ञेयो नाम्ना श्रीतिलकः खलु ॥ २१ ॥ सर्वे कूटान्विताः कार्याः सर्वे कार्याश्चतुर्मुखाः । मिश्रका बहुतिलकाः शेषा वै कूटसंज्ञकाः ॥ २२ ॥
इति श्रीधराद्या दशमिश्रप्रासादाः ॥
भक्ते द्वादशधा क्षेत्रे षट् त्रिंशत्कोष्ठगर्भकः । भागो भागा भ्रमो भित्तिर्भागा वै बाह्यभित्तिका ॥ २३ ॥ कर्णानुगं द्विभागं च भद्रं द्विगुणविस्तरम् । एकभागनिष्कासो भद्रे प्रतिरथेऽथ वा ॥ २४ ॥ कर्णे प्रतिरथे कुर्याच्छृङ्गं वै सर्वतोभवम् । द्वितीयक्रमैः कर्णो कुटं स्यात्तिलकान्वितम् ॥ २५ ॥ शिखरं चाटविस्तारं ब्रभागा चोरुमञ्जरी । प्रथमे च चतुर्भाग: श्रीतिलकस्तु कामदः ॥ २६ ॥ श्रीतिलकाप्र संस्थाने तत्प्रमाणांशतस्तथा । संलग्ना बाह्यभित्तौ च भद्रे चन्द्रावलोकना ॥ २७ ॥ मध्यकोष्ठकद्वारं तु भवेच्छ्री तिलकाग्रतः । केशरि द्वाद्वयं कुर्यात् लताख्यः सर्वकामदः ॥ २८ ॥ यथाऽप्रतस्तथा पृष्ठे त्रिपुष्कर इतीरितः । याम्योत्तरेऽग्रतः पृष्ठे पञ्चवक्त्रो महेश्वरः ॥ २९ ॥
पञ्चवक्त्रस्य संस्थाने स्याश्चतुर्दिक्षु केशरी । द्विकोष्ठकं त्यजेत्स्तम्भं दापयेश्च चतुष्किकाम् ॥ ३० ॥
चतुर्मुखस्तदा नाम प्रासादः स्यान्मनोहरः । विधेर्विष्णो रवेः कुर्याच्छम्भोः कुर्याद्यदृच्छया ॥ ३१ ॥ पञ्चषष्टिकरैज्येष्ठो मध्यमः स्याच्छतार्थतः ।
कनिष्ठः पञ्चत्रिंशद्भिस्त्रिविधः स्यान्नवात्मकः ॥ ३२ ॥
४२७