________________
(१६८) मिश्रकप्रासादलक्षणात्मकमष्टषष्टयुत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
मिश्रकान् कथयिष्यामि ये चोक्ताः पूर्वमेवहि । पृथगेकादिसम्भूताः प्रशस्ताः सर्वकामदाः ॥ १॥ सुभद्रश्च किरीटश्च सर्वतोभद्र एव च । सिंहकेशरी नामा च चित्रकूटो धराधरः ॥२॥ तिलकोऽथ थीतिलकस्तथा सर्वाङ्गसुन्दरः। नवैते मिश्रकाः ख्याता रुचकाद्यसमुद्भवाः ॥३॥ विजयो नन्दसंज्ञश्च महाघोषस्तथापरः। वृद्धिरामाभिधानश्च प्रासादोऽन्यो वसुन्धरः॥४॥ मुद्गकोऽथ बृहच्छालस्तथैव च सुधाधरः । संबराख्यश्च सर्वाङ्गः प्रयुक्ताः श्रीधरादिके ॥५॥ केशर्याद्यान् कथयिष्ये जाता: शस्ताश्च ये ततः । थीतिलकोद्भवाख्यादिः प्रोक्तः प्रथममिश्रकः ॥६॥ लताख्यस्त्रिपुराख्यश्च पञ्चवक्त्रश्चतुर्मुखः। नवात्मकश्च विज्ञेयः गूढात्मकसमुद्भवाः ॥७॥ भद्रकस्य च संस्थाने भद्रे शृङ्गं यदा भवेत् । सुभद्रो नाम विज्ञेयः किरीटः कर्णकूटतः ॥ ८॥ केशरी च भवेत्पूर्व भद्रे शङ्ग यदा भवेत् । लताख्यः सर्वतोभद्रः सर्वकामफलप्रदः ॥९॥ भद्रे शङ्ग परित्यज्य सिंह तोच कारयेत् । मिश्रयोगेन यो मिश्रः स भवेत् सिंहकेसरी ॥ १० ॥ श्रीवत्सस्यैव संस्थाने भन्ने कूट सुविश्रुतम् । कणे तेनैव योगेन प्रतिशङ्गोपशोभिते ॥ ११ ॥ कुम्भकैः सप्तदशभिः पद्मघण्टाद्यलकृतः । चित्रकूट: समाख्यातो विचित्रशिखरान्वितः ।। १२ ।। कणे भद्रे प्रतिष्ठाने पूर्ण शङ्गं यदा भवेत् । अण्डकाः षोडशैको वा स भवेश्च धराधरः ॥ १३ ॥ श्रीवत्सस्य च संस्थाने कर्णे कूटं निधापयेत् ।। शृङ्गं भद्रोपभद्रे तु स नाम्ना तिलकः स्मृतः ॥ १४ ॥ यथा कर्णे तथा भद्रे यो भवेञ्चित्रकूटवत् । उत्समाङ्गेषु योगेषु स भवेत् सर्वसुन्दरः ॥ १५ ॥
इति रुचकोद्भवनवमिश्रकप्रासादाः ॥