________________
४२३
एकविंशतिमेरुलक्षणाधिकारो नाम सप्तषष्टयुत्तरशततमं सूत्रम् ॥ पक्षयुग्मचन्द्रवेदैर्भक्तेऽष्टादशभिस्तथा। कणे शृङ्गद्वयं चैव पश्चाण्डकविभूषितः॥३०॥ दापयेत्तिलकं का शङ्ख प्रतिरथे तथा । कार्याण्यष्टोरुशृङ्गाणि पञ्चवक्त्रस्तु नामतः ॥ ३१ ॥
इति पञ्चवक्त्रमेरुः ॥ पक्षचन्द्रगुणाश्चैव विभक्त सूर्यसङ्ख्यया। चत्वारो नन्दनाः कर्णे विमान: शिखरोद्गमे ॥ ३२ ॥ त्रिसप्तत्यण्डको ज्ञेयो भद्रे च रथिकोद्गमः । विमानोऽसौ समाख्यातः कर्तव्यः सर्वकामदः ॥ ३३ ॥
इति विमानमेरुः ॥ अछैकपक्षचन्द्राश्च चतुर्विशतिभाजिते । कणे च केशरी कार्यों भद्रे शङ्गवयं तथा ॥ ३४ ॥ प्रत्यङ्गे चाऽशङ्गाणि अण्डकाः सप्तविंशतिः । सर्वदेवालयो युक्तो नाम्ना वै गन्धमादनः ॥ ३५ ॥
इति गन्धमादनमेरुः॥ षड्सचन्द्रतत्त्वानि पत्रिंशद्भिश्च भाजिते । कर्णे शृङ्गद्वयं चैवमेकं प्रतिरथे भवेत् ॥ ३६ ॥ भद्रे शङ्गत्रयं कार्य पञ्चाण्ड दलशङ्गकम् । त्रिनवत्यण्डकः कार्यों मुक्तकोणश्च लक्षितः ॥ ३७ ॥
इति मुक्तकोणमेरुः॥ पढेकयुग्ममेकं च युग्मं षोडशभाजिते । कणे प्रतिरथे द्वे द्वे शृङ्गं पञ्चाण्डभूषितम् ॥ ३८ ॥ द्वादशैवोस्राङ्गाणि प्रत्यङ्गानि तथाऽष्ट च । अण्डकाः शतमेकं चैवं चत्वारिंशदुत्तरम् ॥ ३९ ॥
इति गिरिमेरुः॥ यमेन्दुवोकैकपक्षा अष्टादशविभाजिते । कर्णेऽनुगे त्रिशृङ्गं च पञ्चाण्डकविभूषितम् ॥ ४० ॥ प्रत्यङ्गानि तथा चाऽष्टाबुरःशङ्गाणि षोडश। . तिलकेण्डकानां त्रयोदशाधिकशतद्वयम् ॥४१॥
इति तिलकमेरुः॥ त्रिवित्रियुग्मेन्दुरसाश्चतुर्विंशद्विभाजिते । तिलकतुल्याण्डकयुक् तादृक् शृङ्गेऽब्जशेखरः ॥ ४२ ॥
इति चन्द्रशेखरः ॥