________________
४२२
अपराजितपृच्छा कणे च सर्वतोभद्रं श्रीवत्से रथनन्दिके । त्रीणि षट् चत्वारि क्रमादुरःशङ्गाणि षोडश |॥ १५॥ द्वात्रिंशञ्चैव प्रत्यङ्गे जगत्याध च पूर्ववत् । शेयो वृषभमेरुश्च साधंसप्तशताण्डकः ॥ १६ ॥
इति वृषभमेरुः ।। इषुवेदेषुवेदाश्च भद्रं षट् च यथाक्रमम् ।। मन्दनद्विक्रमं कर्णे तत्तुल्यं प्ररथे तथा ॥ १७ ॥ केशर्युपरथे देयस्तिलकानि तदूर्ध्वतः । द्वादशैवोर:शृङ्गाणि प्रत्यङ्गे तु तथाऽष्ट च ॥ १८ ॥ मेरुसंज्ञश्च गरुडो झेयः पञ्चशताण्डकः । विधेर्विष्णो रवेः कार्यों जैनादीनां च शाश्वतः ॥ १९ ॥
इति गरुडमेरुः॥ इषुपञ्चत्रिषटकं चाऽथाष्टाविंशति भाजिते । कणे केशरिको द्वौ द्वावेकः प्रतिरथे तथा ॥२०॥ उरःशनद्वयं चैव नन्द्यां च तिलक तथा। पञ्चवेदचतुःषटकं कर्णाद्या भ्रमभित्तयः ॥ २१ ॥ पञ्चाशीत्यण्डकैर्युक्तः कर्तव्यः सर्वकामदः । मन्दरो मेरुसंज्ञश्च शिवसूर्यादिके भवेत् ।। २२ ।।
इति मन्दरमेरुः ॥ वेदेन्दुवेदेन्दुयुगा अष्टाविंशतिभाजिते । कर्णे प्रतिरथे चैव द्वे द्वे शृङ्गे च सर्वतः ॥ २३॥ नन्द्यां च लघुशङ्गाणि कर्णतुल्यानि चोच्छ्ये । तदूधै लघुतिलक रथिका ऽयंशकोन्नता ॥ २४ ॥ घोडश चोरःशृङ्गाणि प्रत्यङ्ग तु तथाऽध च । चतुस्त्रिंशत्सर्वभद्रे भद्रकाणां च सङ्ख्यया ॥ २५ ॥ चतुर्विशतितिलकैः सभ्रमो वा भ्रमैर्विना । पञ्चषष्टिश्च द्विशतं लक्ष्मीकोटरकाण्डकाः ॥ २६ ॥
इति लक्ष्मीकोटरमेरुः ।। वेदरामाधित्रिवेदाः पत्रिंशद्भिर्विभाजिते । भ्रमैर्विना सभ्रमो वा कर्तव्यः सर्वकामदः ॥ २७ ॥ कणे प्रतिरथे चैव द्वे द्वे शृङ्गे पञ्चाण्डकाः। द्वादश चोर:शृङ्गाणि प्रत्यङ्गानि तथाऽट च ॥ २८ ॥ का तिलकानि कुर्यात्कैलासो नामतो भवेत् ।
इति कैलासमेरुः ॥ एकचत्वारिंशदेष प्रशस्यन्तेऽण्डकास्तथा ॥ २९ ॥