________________
(१६७) एकविंशतिमेरुलक्षणं सप्तषष्ठयुत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
मरुर्वृषभो गरुडो मन्दरो लक्ष्मीकोटरः । कैलासः पञ्चवक्त्रश्च विमानो गन्धमादनः ॥ १ ॥ मुक्तकोण गिरिचैव तिलकश्चन्द्रशेखरः । मन्दरतिलकश्चैव सौभाग्यः सुन्दरस्तथा ॥ २ ॥ श्रीतिलको विशालश्च श्रीकूटो नन्दिवर्धनः । पद्मसम्भव आख्याताः प्रासादास्त्वेकविंशतिः ॥ ३ ॥ दशधा चाऽष्टधा चैव नवधा च प्रकल्पयेत् । भागो भाग भ्रमो भित्तिः शेषं गर्भगृहं भवेत् ॥ ४ ॥
मेरुभ गरुड एषां युक्तिर्विधीयते । ज्येष्ठो मध्यः कनिष्ठश्च मेरुस्त्रिविध उच्यते ॥ ५ ॥
दशहस्तादो नास्ति प्रासादो भ्रमसंयुतः । लतिने स्वहस्तादि पञ्चाशद्वस्तकावधि ॥ ६ ॥ नागरैः शुद्ध छन्दाश्च कर्तव्याः सर्वकामदाः । कर्णाद्यं गर्भपयन्तं विभागानां तु निश्वयः ॥ ७ ॥ एकविंशतिप्रासादा मेरुकाद्यसमुद्भवाः ।
कमयुक्त्या विधातव्याः प्रयुक्ता वास्तुवेदिभिः ॥ ८ ॥ षड्दस्त वेदयुगका युगवेद द्विषड्वसु । पृथुमानेन निष्कासो भद्रं षङ्गिर्विनिर्गतम् ॥ ९ ॥ कर्णे च नन्दकां कुर्यात् तत्तुल्यां प्ररथे तथा । केशरी स्यादुपरथे श्रीवरलो नन्दिकोद्गमे ॥ १० ॥ त्रीणि षट्चत्वारि कर्णे नन्द्यां प्ररथके क्रमात् । प्रत्यङ्गे चैव द्वात्रिंशदुरः शृङ्गाणि विंशतिः ॥ ११ ॥ चन्द्रावलोकना भद्रे छाद्यघण्टाद्यलङ्कृता । आमलसारं कलशं शुकनासयुता ध्वजा ॥ १२ ॥ मण्डपै: सुवितानैश्च सभ्रमा जगती तथा । शालाकुलो युक्ति कीर्ण सहस्राण्डक मेरुकः ॥ १३ ॥
इति मेरुप्रासादः ॥
इषुपक्षर्तुयमला स्तत्त्व नियमर्तवः । भद्रं वार्धनिष्कासं पृथक् शेषा विनिर्गताः ॥ १४ ॥