SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ ४२० सुरतर्वादिप्रासादलक्षणाधिकारो नाम षट्षष्टयुत्तरशततमं सूत्रम् ॥ विमानच्छन्दं नन्दाख्ये शिखरे चोरुमञ्जरी । हिमवांश्च तदा नाम वन्दितस्त्रिदशैरपि ॥ ६५ ॥ " इति हिमवान् ॥ तद्रूपे तु द्वितीया च त्रिभूमा चोरुमञ्जरी । राजहंसस्तदा नाम सिद्ध किन्नरसेवितः ॥ ६६ ॥ इति राजहंसः ॥ अमृते कर्णशृङ्गं च कर्तव्यं तु नवाण्डकम् । मनुप्रभस्तदा नाम प्रासादो देवतालयः ॥ ६७ ॥ इति मनुप्रभः ॥ पृथ्वीजये सर्वशृङ्गं कर्तव्यं च नवाण्डकम् । सुरवल्लभनामासाविच्छाभुक्तिप्रदायकः ॥ ६८ ॥ इति सुरवल्लभः ॥ वैय्यें सर्वशृङ्गाणि कर्तव्यानि च सर्वतः । त्रैलोक्यस्तु तदा नाम पूज्यः सुरनरोरगैः ॥ ६९ ॥ इति त्रैलोक्यः ॥ , मुकुटोज्ज्वलवच्छृङ्ग कर्तव्यं च नवाण्डकम् | सिद्धार्थकस्तदा नाम सिद्धिभुक्तिप्रदायकः ॥ ७० ॥ इति सिद्धार्थकः ॥ लक्ष्मीभूषणशृङ्गं च भूषणीयं नवाण्डकैः । चतुर्मुखो रतिप्रभः कामदेव सुखालयः ॥ ७१ ॥ इति रतिप्रभः ॥ सर्वाङ्गभूषणे शृङ्गं कर्तव्यं सर्वतोभवम् । महाकान्तस्तदा नाम कर्तव्यः सर्वदैवते ॥ ७२ ॥ इति महाकांन्तः ॥ नवाण्डकं च कर्तव्यं शृङ्गं भुवनमण्डने । पद्मरागस्तदा नाम कर्तव्यः पद्मयोनये ॥ ७३ ॥ इति पद्मरागः ॥ केतकीस्वर्णदलतस्तादृशी चोरुमञ्जरी । विमाने नव शृङ्गाणि शिखरे चोरुमञ्जरी ॥ ७४ ॥ प्रत्यङ्गानि विमाने च मूलरेखा च शृङ्गतः । लताः पञ्चैकादशांशा मेरुदशशताण्डकः ॥ ७९ ॥ इति सहस्राण्डको मेरुः ॥ इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृ श्री भुवन देवाचार्योक्ता पराजित पृच्छायां सुरतदिप्रासादलक्षणाधिकारी नाम षट्षष्टयुत्तरशततमं सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy