________________
अपराजितपृच्छा अष्टाविंशत्युरःशृङ्गं प्रत्यङ्गानि च द्वात्रिंशत् । शुङ्गाणि सर्वाणि शतं सप्तपञ्चाशदुत्तरम् ।। ४९ ।। लक्ष्मीभूषणनामाऽसौ सर्वदेवहितावहः ।। कर्तृकारून प्रापयेत्तद् यत्स्थानं देवदुर्लभम् ॥ ५० ॥
इति लक्ष्मीभूषणः॥ अष्टाविंशतिभक्ते च द्विभागः कर्णविस्तरः । तत्समश्च प्रतिरथो निर्गमश्चैकमागिकः ।। '५१ ॥ रथश्चाऽनुगतश्चैव द्विभार्ग विस्तरे पृथक् । सार्धभागा नन्दिका च तत्समा प्रतिनन्दिका ॥ ५२ ।। अर्धमध विधातव्याश्चतस्त्रः कर्णिका बुधैः । द्विभागो भद्रविस्तारो निर्गमश्चाधभागिकः ॥ ५३॥ रथिकांशोन्नता सार्ध कर्णीशङ्गं समुन्नतम्। . द्विभागं द्वितीयं चैव सार्धद्वयंशं तृतीयकम् ॥ ५४॥ त्र्यंशोन्नतं चतुर्थं च चतुरंशैस्तु पञ्चमम् । षष्ठं च तत्सम शेयमूर्ध्वशृङ्ग तु द्वयंशकम् ॥ ५५ ॥ अन्यानि सर्वशृङ्गाणि वेदांशानि समुच्छ्तिौ । त्रिभागा चाच्छिता शृङ्गे भागा स्यात् पद्मपत्रिका ॥ ५६ ॥ त्रिशङ्गमुच्छ्रितं कर्णे द्वयंशं प्रतिरथे तथा । रथे कणे समन्ताच प्ररथे च तथानुगाः ॥ ५७ ।। षट्पञ्चाशत्कर्णशङ्गमष्टषष्टिदलाण्डकाः । उरःशङ्गाणि द्वात्रिंशत् प्रत्यङ्गानि ततोऽप्रभिः ॥ ५८ ॥ रेखाविंशतिभागाश्च शङ्गगर्भे च मञ्जरी। पञ्चषष्टयुत्तरशतमण्डकानां प्रशस्यते ॥ ५९॥ . सर्वाङ्गभषणश्चैव प्रासादः सुरवल्लभः । सुरैः सह क्रीडयन्ते यावदाहृतसंप्लवम् ॥ ६० ॥
इति सर्वाङ्गभूषणः । भद्रे शृङ्गं प्रदातव्यं नाना भुवनमण्डनः । प्रियश्च नित्यं देवानां नवष्टिशताण्डकः ॥ ६१ ॥
नमण्डनः ॥ विमानवत्सुरतरौ कर्णे शृङ्ग त्रिभूमिकम् । भद्रे रथोद्गमश्चैव श्रीरथः सर्वकामदः ॥ ६२ ॥
इते श्रीरथः ॥ श्रीवरसे कर्णशङ्गाणि विमानः पञ्चभूमिकः। रथिकाभद्रशोभायो नाम्नाऽसौ पुण्यवर्धनः ॥ ६३ ॥
इति पुण्यवर्धनः॥ सुरानन्दं कर्णशृङ्गे सर्वतोभद्रमालिखेत् ।। मन्दरोऽसौ समाख्यातः सुरूपो लक्षणान्वितः ।। ६४॥
इति मन्दरः॥