________________
४१८
सुरतर्वादिप्रासादलक्षणाधिकारो नाम षट्षष्टयुत्तरशततमं सूत्रम् ।। द्वितीयका तद्विगुणा त्रिभागा तु तृतीयका । चतुर्थी च चतुर्भागा तृतीयावत् प्रत्यङ्गकम् ॥ ३२।। उरुमार्यधभागा प्रदाप्या रथिकोर्ध्वतः। रथको भवेच्छृङ्ग प्रत्यङ्गे च द्विकर्णकम् । कणे प्रतिरथे चैव द्विद्विशृङ्ग प्रदापयेत् ।। ३३ ॥ चत्वारिंशश्च शृङ्गाण्युरुमार्यश्च विंशतिः । प्रत्यङ्गे चाष्टमञ्जयः शेषं च तिलकान्वितम् ॥ ३४॥ ख्यातो वैडूर्य एकोनसप्तत्यण्डकतो भवेत् । कर्ता चाऽवरकैः सार्ध शिवलोके महीयते ॥३५॥
___ इति वैडूर्यः ॥ क्षेत्रे विभक्त मन्वंशैईिभागः कर्णविस्तरः।। अर्धभागा कर्णिका च सार्धः प्रतिरथो भवेत् ॥ ३६॥ पुनः कर्णी चाभागा नन्दिका चैकभागिका । अर्धा कर्णी विधातव्या द्विभागो भद्रविस्तरः ॥ ३७ ॥ कणे द्विशृङ्गं तिलके द्वे द्वे नन्द्यां प्रतिरथे । षट् त्रिद्विसाधैकार्धमुरःशृङ्गाणि कल्पयेत् ॥ ३८ ॥ षोडशप्रत्यङ्गयुक्तं शेषं वै कूटकं तथा । मुकुटोज्ज्वल आख्यातः कर्तव्यः सर्वदैवते ॥ ३९ ॥
इति मुकुटोज्ज्वलः॥ चतुर्विंशतिभिभक्त द्विभागाः कर्णकानुगाः। त्रिसंघाटा मध्यकर्णे शेषा भागेन कल्पिताः ॥ ४० ॥ द्विभार्ग पृथुभद्रं स्याः द्वे द्वे च कर्णिके। ? द्वयंशोदया च रथिका सार्धद्वयंशा तु कर्णिका ॥ ४१ ।। द्वितीया तु त्रिभागास्यादर्धयुक्ता तृतीयका । ततुल्या तु चतुयूंचे तिलकं त्येकभागिकम् ।। ४२ ।। पञ्चमी च चतुर्भागा द्विभागं तिलक तथा । षष्ठी चतुर्थी विज्ञेया प्रत्यङ्गतिलकोपरि ॥ ४३ ॥ चतुर्थी पञ्चमी षष्ठी त्रिसंघार्ट तदुच्यते । स्यात् कर्णे रथिकामध्ये संघाटस्तत्प्रमाणत: ॥४४॥ पोषयेन्मध्यकर्णाधं शोषयेत्पक्षकर्णिकाम् । तत्प्रत्यङ्गे मध्यकर्णी लघुस्था वामदक्षिणे ॥४५॥ एकद्वित्रिचतुःषट् अष्टस्यादावुभौ व च? । ऊरुमञ्जरी त्यागानि द्विरधौस्यान्मूलमञ्जरी? ॥४६॥ त्रिभागमुच्छ्रितं शृङ्ग भागास्यात्पद्मपत्रिका । द्राविडे वराटकूटं त्रिसंघाटे प्रकल्पयेत् ॥४७॥ कणे प्रतिरथे चैव त्रित्रिशृङ्ग समुन्नतम् । षत्रिंशच्छृङ्गाणि कण्यो चतुःषष्टिस्तथैव च ॥४८॥