________________
अपराजितपृच्छा तद्रपे तत्प्रमाणे च भद्रपक्षे तु कर्णिका । भद्रे कर्णे द्विशङ्गं च नन्दनः सर्वकामदः ॥ १५ ॥
इति नन्दनः ॥ अष्टधा भाजिते चैव समक्षेत्रे विचक्षणः । द्विभागः कर्ण इत्युक्तः कर्णिका चार्धभागतः ॥ १६ ॥ तत्समा च द्वितीया च निर्गमे विस्तरे तथा । द्विभार्ग मु बभद्रं च अर्धभागेन निर्गमः ॥ १७ ।। कणे शृङ्ग विधातव्यं सघण्ट व्यंशकोन्नतम् । तदूधैं तिलकं चैव द्विभागश्च तथोदयः ॥ १८ ॥ कर्णशङ्गोभयपक्षे को शृङ्ग समोदयम् । द्विभागमुन्नतं कुर्याच्छुङ्गं च प्रतिकर्णके ॥ १९ ॥ भागोन्नता व रथिका तद्विस्तारो द्विभागिकः । षड्भागा मूलरेखा च त्रिभागा चोरुमञ्जरी ।। २० ।। द्वितीया च द्विभागा स्यादेकभागा तृतीयका ।। द्वादशैवोरुमार्यः शङ्गाणां विंशतिस्तथा ॥ २१ ॥ चतुस्तिलकसंयुक्तं त्रयस्त्रिंशत्तथाऽण्डकाः । अमृतोद्भवनामाऽसौ वन्दितस्त्रिदशैरपि ।। २२ ॥
इत्यमृतोद्भवः ॥ दशधा भाजिते क्षेत्रे द्विभागः कर्णविस्तरः। अर्धभागा कर्णिका च सपादा च द्वितीयका ।। २३ ।। अर्धभागा तृतीया च भद्रं स्यात्सार्धभागिकम् । कर्णे शङ्गद्वयं कुर्यात् षड्भागा मूलमञ्जरी ॥ २४ ॥ कर्णशृङ्गे सङ्गता च सार्धशोरुमारी । द्विभागा च द्वितीया स्यात् प्रत्यङ्गं च तदृतः ॥ २५ ॥ एकभागां मञ्जरिकां रथिकोपरि दापयेत् । पुनरने चार्धभागां चतुर्थीमुरुमञ्जरीम् ।। २६ ॥ चतुर्विंशति शृङ्गाणि चोराशङ्गाणि षोडश । लघुकां च तिलकं प्रत्यङ्गे तु ततोऽष्ट च ॥ २७ ॥ पृथ्वीजयस्तथैकोनपञ्चाशचाण्डकैर्भवेत् । एकच्छत्रं धरागज्यं भवेज्जन्मनि जन्मनि ।। २८ ॥
इति पृथिवीजयः ।। क्षेत्रे द्वादशधा भक्ते द्विभागः कर्णविस्तरः । कर्णिका चार्धभागा स्यात् सार्धः प्रतिरथो भवेत् ॥ २९ ॥ अर्धभागा पुनः कर्णी तत्समा भद्रकर्णिका। निष्कासो विस्तरसमः कर्णिका प्ररथे तथा ॥ ३० ॥ द्विभागो भद्रविस्तारो निर्गमश्चैकभागिकः।। भागोत्सेधा च रथिका भागा स्थाश्चोरुमारी ॥ ३१ ॥