________________
(१६६) सुरतर्वादिप्रासादलक्षणात्मकं षट्पष्टयुत्तरशततमं सूत्रम् ॥
अपराजित उवाच
उक्ता ये सुरतर्वाद्याः प्रासादाः सर्वकामदाः ।
प्रशस्ताश्च विना दोषः कथयस्व प्रसादतः ॥१॥ विश्वकर्मोवाच--
अथातः सम्प्रवक्ष्यामि प्रासादानां तु लक्षणम् । नाम पादप्रमाणं च संस्थानोन्मानलक्षणम् ॥ २॥ सुरतरुः श्रियानन्दः सुरानन्दस्तृतीयकः । नन्दाख्यो नन्दनश्चैव ामृतोद्भव एव च ॥ ३ ॥ पृथ्वीजयश्च वैट्टयों मुकुटोज्ज्वल एव च । लक्ष्मीभूषणनामा च तथा सर्वाङ्गभूषणः ॥४ भुवनमण्डनश्चैव श्रीरथः पुण्यवर्धनः। मन्दरो हिमांश्चैव राजहंसो भनुप्रभः ॥५॥ सुरवल्लभस्त्रैलोक्यः सिद्धार्थश्च रतिप्रभः । महाकान्त: पद्मरागो मेरुश्च त्रिदशालयः॥६॥ पञ्चविंशतिरित्युक्ता महाप्रासादनायकाः ।. वक्ष्यामि लक्षणं तेषां प्रस्तारच्छन्दनिर्णयम् ॥ ७ ॥ चतुरभीकृते क्षेत्रे त्रयोदशविभाजिते । त्रिभागो भद्रविस्तार: कर्णमानं.द्विभागिकम् ॥ ८॥ भद्रार्धं च प्रतिरथो युग्माकारावुभौ च तो। षडंश: पदनिष्कासः सर्वेषां च सुखावहः ॥९॥ उदकान्तरसंयुक्तं घण्टाकलशभूषितम् । चतुर्विंशतिवल्लीकमेकाण्डकविभूषितम् ॥ १० ॥ प्रासादं सुरतर्वाख्यमिमं यः कारयेन्नरः। इच्छितं लभते राज्यं भुक्त्वा भोगांश्चस्वर्पतिः ।। ११ ॥
इति सुरतरुः। भद्रं कर्णे भवेद् भागं सपादः प्ररथस्तथा । वल्लभः सर्वदेवानां श्रियानन्दः शुभंकरः ॥ १२ ॥
इति धियानन्दः॥ कणे शङ्गं विधातव्यं रथिका भद्रशोभिता । सुरतरुस्तच्छिखरं सुरानन्दः स उच्यते ॥ १३॥
इति सुरानन्दः॥ भद्रे तु शिखरं देयं घण्टाकलशभूषितम् । सर्वतो भद्रकाकारो नन्दाख्योऽसौ भवेत्तदा ॥ १० ॥