________________
अपराजित पृच्छा
पृथ्वीजयो भद्र इन्द्रनीलो द्वितीयके । तृतीय के महापद्मो वैडूर्य्यश्च चतुर्थके ॥ १६ ॥ त्यक्तं भद्रे नन्दिशृङ्गं सिंहो वै सर्वकामदः । तस्य भद्रे यदा शृङ्गं तदा नाम त्रिविष्टपः ॥ १७ ॥ स्यात्कर्णे च यदा शृङ्गं भवेत्पञ्चाण्डकं तथा । कैलासो नाम विज्ञेय ईश्वरस्य सदा प्रियः ॥ १८ ॥
त्रयोदशविभक्ते च द्विभागः कर्णविस्तरः | सार्धभागः प्रतिरथो भागतश्चैव नन्दिका ॥ १९ ॥ चतुर्भागं भवेद् भद्रं मुखभद्रविभूषितम् । चत्वारो मन्दराः कर्णे केशरी च तदूर्ध्वतः ॥ २० ॥ पञ्चाण्डकं प्रतिरथे नन्द्यां च तिलकं तथा । त्रिमत्तालम्बप्रभद्रं वर्धमानः स उच्यते ॥ २१ ॥ गिरिकूटो भद्रशृङ्गे द्वितीये हंस एव च । तृतीये च भवेच्छ्रङ्गं नाम्ना सर्वाङ्गसुन्दरः ॥ २२ ॥ चतुर्थशृङ्गे कुर्यात्तु श्रीनिवासं तथोत्तमम् । त्यकभद्रं नन्दिशृङ्गं श्रियानन्दस्ततो भवेत् ॥ २३ ॥ चतुर्थे भद्रशृङ्गे तु मेरुः स्याद् भवनोत्तमः । प्रासादानां समस्तानां मेरू राजा विधीयते ॥ २४ ॥ सान्धारका इमे कार्याः सभ्रमा भ्रमवर्जिताः । दशहस्ताद्यदा हीनं न कुर्याद् भ्रमसंयुतम् ॥ २५ ॥
इति सूत्रसन्तानगुणकीर्तिप्रकाश प्रोक्तृश्री भुवनदेवाचार्यों का पराजित पृच्छायां भूधरादिप्रासादलक्षणाधिकारो नाम पञ्चषष्ट्युत्तरशततमं सूत्रम् ॥
४१५