________________
(१६५) भूधरादिप्रासादलक्षणात्मकं पञ्चषष्टयुत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
अत ऊर्व प्रवक्ष्यामि प्रासादानां तु लक्षणम् । भक्त्या छन्दैस्तथाकारैर्नागरा भूधरादयः ॥१॥ भूधरो भद्रकश्चैव नन्दीशो नन्दिवर्धनः। पुष्पको मन्दरश्चैव गरुडो वृषभस्तथा ॥ २॥ ऐरावतो राजहंस: सुभद्रः पृथिवाजयः । इन्द्रनीलो महापद्मो वैडूर्यः सिह एव च ॥३॥ त्रिविष्टपस्तु विज्ञेयः कैलासः पुण्यवर्धनः। वर्धमानो गिरिकूटः हंसः सर्वाङ्गसुन्दरः॥४॥ श्रीनिवासः श्रियानन्दो मेरु: प्रासादनायकः। पञ्चविंशतिराख्याता जातिशुद्धाश्च नागराः ॥५॥ चतुर्भदेस्तलोर्चे तु प्रासादाः पञ्चविंशतिः । इषुपश्चाष्टसप्ताऽत्र प्रयुक्ता वास्तुवेदिभिः ॥ ६ ॥ भूधरे वर्धमाने तु भद्रं वै चतुरंशकम् । मन्दरे च सुभद्रे च त्रिभागो भद्रविस्तरः ॥७॥ केशरी पूर्ववज्ञेयः पञ्चाण्डकविभूषितः । मत्तालम्बयुतं भद्रं भूधरो नाम नामतः ॥ ८॥ भद्रशङ्गे भद्रकं च द्वितीये नन्दिशालकः। भद्रे त्यक्तं च कर्णोर्चे दद्यात्स्यान्नन्दिवर्धनः ॥९॥ तथैव च यदा शृङ्गं मत्तालम्बोऽप्रभद्रके। पुष्पको नाम विज्ञेयः सर्वकामफलप्रदः ॥ १०॥ नवभक्ते तलच्छन्दे नन्दिका भागमेव च । भद्रे कर्णे द्विद्विशृङ्गं नन्द्यां शृङ्गे तु मन्दरः॥ ११॥ भद्रे शृङ्गं तृतीयं च गरुडो विष्णुमन्दिरम् । भद्रे कर्णे यदा शृङ्ग मत्तालम्बे वृषस्तथा ॥ १२ ॥ तथैव भद्रे चेच्ङ्ग शुभ ऐरावतो मतः । चतुर्थे भद्रशृङ्गे तु ब्रह्मोक्तो राजहंसकः ॥१३॥ विभक्तमेकादशभिनन्दिकायां द्विशृङ्गकम् ।। नन्दनश्च तथा कर्णे श्रीवत्सत्तु तदूलतः ॥ १४ ॥ नन्दिकायां ततः शङ्ख द्वितीये तिलकं भवेत् । मत्तालम्बस्त्रिभद्रेषु सुभद्रो नाम नामतः ॥ १५ ॥