________________
पूर्णभद्रादिनागरप्रासादलक्षणाधिकारो नाम चतुः षष्ठयुत्तरशततमं सूत्रम् ॥
चतुरश्रीकृते क्षेत्रे द्वाविंशतिविभाजिते । चतुष्पदा रथकर्णा एकैकांशा च नन्दिका ॥ ३४ ॥
षड्भागं च भवेद् भद्रं द्विद्वयंशा युग्मनन्दिकाः । भद्रे कार्य द्वाविंशत्यंशशृङ्गकम् || ३५ ||
कर्णे प्रतिरथे कुर्याद् द्वादशांशोरुमञ्जरी । तथा नन्दौ द्वितिलकं प्रत्यङ्गं स्याद्युगांशकम् ॥ ३६ ॥ रथे शृङ्गं तिलकं तु नन्दावष्टांशमञ्जरी । भद्रनन्द्यां द्वितिलकं षडंशा चोरुमञ्जरी ॥ ३७ ॥ भद्रे शृङ्गं चतुर्थं च चतुर्भागैस्तु विस्तरः । एवंविधः प्रकर्तव्यः प्रासादो वृषभाभिधः ॥ ३८ ॥ भद्रनन्द्यामेकशृङ्गं गिरिकूटस्य लक्षणम् । कणोंर्ध्व च ततः शृङ्ग कैलासः सर्वकामदः ॥ ३९ ॥ तथैव तिलकं कुर्याद् द्विशृङ्गा रथनन्दिका । अमरोऽसौ समाख्यातः कर्तव्यः सर्वकामदः ॥ ४० ॥
ततः शृङ्गे तु माहेन्द्रः कर्तव्यः शान्तिमिच्छता । प्रासादपञ्चकं चैतत्कर्तव्यं शिववल्लभम् ॥ ४१ ॥
इति शिवप्रसादपञ्चकम् ॥
इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवनदेवाचार्योक्ता पराजित पृच्छायां पूर्णभद्रादिनागरप्रासादलक्षणाधिकारो नाम चतुःषष्ट्युत्तरशततमं सूत्रम् ॥
४१३