________________
अपराजितपृच्छा प्रत्यङ्गव्यंशतः कीर्ति-पताकस्य च लक्षणम् । उर:शृङ्गं तृतीयं च ऋषिकूटः स उच्यते ॥ १७ ॥ रेखोचे तिलकं नन्द्यां शङ्ख श्रीवत्स उच्यते। ततः शृङ्गश्च (ङ्गे च) विजयः सर्वकामफलप्रदः॥१८॥ कणे कटं नन्दिशङ्ग कर्णस्योभयपक्षतः। पक्षिराज: समाख्यातः प्रासादो भवनोत्तमः ॥ १९ ॥
इति विष्णुप्रासादपञ्चकम् ॥ कणे नन्दीप्रतिरथौ पूर्ववञ्च सुसंस्थिती। नन्दिका भागनिष्कासा द्विभागं पार्श्वक्षोभणा ॥ २० ॥ भागा नन्दी पुनः कार्या वेदांशो भद्रविस्तरः। निष्कासश्चक भागस्तु कर्तव्यः शुभलक्षणः ॥२१॥ चतुर्भागं भवेद् भित्तिः शेषं गर्भगृहं भवेत् । कणे शृङ्गत्रयं कार्य क्रमतो भागनिर्गतम् ॥ २२ ॥ षोडशांशं च शिखरमुरःशङ्गं तदर्धतः । तत्पदोनं तदनं च तस्याग्रं च युगांशकम् ॥ २३ ॥ कणे प्रतिरथे तुल्या द्विक्रमा चैव नन्दिका । कणे प्रतिरथे भने शङ्गाणि त्रीणि त्रीणि च ॥ २४ ॥ द्वौ द्वौ फूटौ नन्दिकायां प्रत्यङ्गानि ततोऽभिः । भद्रनन्धेककूटं च पद्मरागः स उच्यते ॥ २५ ॥ भद्रशङ्गे विशालाख्यो विभवं च तथा शणु।। कर्णकट नन्दिशृङ्गं नाम्ना वै विभवस्तथा ॥ २६॥ ततः शृङ्गे कामदस्तु कर्तव्यो रत्नसंभवः । भद्रे चेन्नन्दिका त्यक्ता लक्ष्मीकोटर उच्यते ॥ २७ ॥
इति जिनेन्द्रप्रासादपञ्चकम् ॥ तद्प च तदाकारं भद्रं षड्भागविस्तरम् । द्वौ द्वौ नन्दी पार्श्वतश्चैकैकभाग प्रकल्पितौ ॥ २८॥ चतुष्पदा रथकर्णाः शङ्ख षोडशविस्तरम् । उर:शृङ्गं तथाष्टांशं षडंशं तस्य चाग्रतः ॥ २९ ॥ चतुर्भागमुरःशुद्धं भद्रे कुर्यात्तथोद्गमम् । कणे प्रतिरथे चैव शृङ्गाणि त्रीणि त्रीणि च ॥ ३०॥ नन्दिकायामेकशङ्ख शेषे कूटानि कारयेत् । इति शास्त्र ? (शस्त) गुणैर्युतो हंसनामा स उच्यते ॥३१॥ भद्रे शङ्ख पुनर्दद्यात् स्यादैरावतलक्षणम् । त्यक्तं नन्दिद्वयं भद्रे त्रिमुखः सर्वकामदः ।। ३२॥ भद्रशङ्गे पद्मराग: कर्तव्यो लक्षणान्वितः । शृङ्गं त्यक्त्वा भद्रनन्दी स्वस्तिकस्तु भवेत्तदा ॥ ३३ ॥
इति सूर्यप्रासादपश्चकम् ।।