________________
(१६४) पूर्णभद्रादिनागरप्रासादलक्षणात्मकं चतुःषष्टयुत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
पूर्णभद्रः सुभद्रश्च श्रीशैलः कुमुदोद्भवः। सर्वतोभद्र इत्युक्ताः प्रासादा ब्रह्मणः प्रियाः ॥ १॥ कीर्तिपताकर्षिकूटौ श्रीवत्सो विजयस्तथा । गरुडश्च समाख्याताः प्रासादा हरिवल्लभाः॥२॥ पद्मरागो विशालाख्यो विभवो रत्नसंभवः । लक्ष्मीकोटर इत्येवं पञ्चैते तु जिनाश्रयाः ॥३॥ हंस ऐरावतश्चैव त्रिमुखः पद्मकस्तथा । स्वस्तिकश्च समाख्याताः पञ्चेते भानुवल्लभाः ॥४॥ वृषभो गिरिकूटश्च कैलासश्चामरस्तथा । महेन्द्रश्च समाख्याताः पञ्चते शिववल्लभाः ॥ ५॥ विभक्ति तलच्छन्दानामुलमान विशेषतः । प्रयुक्ता विविधाश्छन्दा वास्तुवेदसमुद्भवाः ॥ ६॥ भक्ते विंशतिधा क्षेत्रे त्रिभागः कर्णविस्तरः। तत्समश्च प्रतिरथो विस्तरे निर्गमे तथा ॥ ७ ॥ भागा नन्दी च षड्भद्रं द्विभागो भद्रनिर्गमः । चतुर्भागा भवेदू भित्तिः शेषं गर्भगृहं भवेत् ॥ ८॥ कणे द्विशङ्ख तिलकं शिखरं सूर्यविस्तरम् । रथैकशृङ्गतिलकमष्टांशा चोरुमञ्जरी ॥९॥ नन्दिकायां च तिलकमुरःशुङ्गं षडंशकम् । रथोद्गमस्ततो भद्रे पूर्णभद्रस्य लक्षणम् ॥ १० ॥ उरःशङ्गं च वेदांशं भद्रे कुर्यात्तृतीयकम् । सुभद्रश्च तदा नाम प्रासादः क्षितिभूषणः ॥ ११ ।। भद्रे शङ्ग परित्यज्य नन्दीशृङ्गाणि कारयेत् । श्रीशैलश्च तदा नाम कथितश्च विरचिना ॥ १२ ॥ भद्रे शङ्गे कुमुदकः कर्तव्यः शुभलक्षणः । कणे च तिलकं शृङ्गं सर्वतोभद्रलक्षणम् ॥ १३ ॥
इति ब्रह्मप्रासादपञ्चकम् ॥ क्षेत्रे च द्वाविंशतिधा पूर्ववत्तलसंस्थितिः। कर्णप्ररथमध्ये च नन्दिका चैकभागिका ॥ १४ ॥ कणे प्रतिरथे चैव द्वे द्वे शङ्ख च कारयेत् । त्रिभिर्भागैश्च प्रथम सार्धद्वयंशं द्वितीयकम् ॥ १५॥ नन्दिकायां ततः शृङ्गं शृङ्गं षोडश विस्तरम् । शिखरोर्वे उर:शृङ्ग षड्भागं च तदग्रतः ॥ १६॥