________________
४१०
श्रीधरादिप्रासादलक्षणाधिकारो नाम त्रिषष्टयुत्तरशततम सूत्रम् ॥ कर्णशङ्ख भद्रशङ्ख सन्त्यजेत्पञ्चचामरे । सिंहकर्णद्वयं कार्य हर्षणो नाम नामतः ॥ ९१॥
___इति हर्षणः ।। सिद्धार्थश्च भवेत्पूर्व सिंहकर्णैः स दुर्धरः। दुर्धरो नाम गुणतः शिवसान्निध्यदः सदा ॥ ९२॥
इति दुर्धरः॥ श्रीवत्सश्च भवेत्पूर्व विजयो भद्रकोद्गमैः। विजयं सर्वकल्याणमायुरारोग्यवर्धनम् ॥९३॥
इति विजयः। कर्णच भवेद् भद्रं त्रिकूटः पञ्चभूमिकः ।। देशभाग्योद्घाटनार्थे शिवः स्याद् दक्षिणाननः ॥ ९४॥
इति चित्रकूटः॥ त्यतकर्णद्वयं शृङ्गं तिलकं कामदं भवेत् । नवशेखर नामाऽसौ कर्तव्यः सर्वदैवते ॥ ९५ ।।
इति नवशेखरः॥ केशरीसिंहकर्णश्च युक्तश्छन्दैस्तु नागरैः।। पुण्डरीकस्तदा नाम कर्तव्यं विष्णुमन्दिरम् ॥९६ ॥
____ इति पुण्डरीकः॥ हंसोद्भवे कर्णशृङ्ग सुनाभः सुभद्रोद्गमैः । सुनाभश्च गुणैः प्रोक्तो यावदाहृतसंप्लवम् ।। ९७ ॥
इति सुनाभः ।। मल्लं वराटशृङ्गश्च तिलकं च महेन्द्रकः। महेन्द्रो नाम गुणत इन्द्रलोके पतिर्भवेत् ॥ ९८॥
इति महेन्द्रः॥ चतुर्भिः सर्वतोभद्रैर्गर्भः स्यादुदकान्तरे । शिखरं शिखिसंयुक्तं नाम्नाऽसौ शिखिशेखरः ॥ ९९ ॥
इति शिखिशेखरः॥ लताख्यं सर्वतोभद्रं मत्तालम्बे वराटकः । वराटो नाम गुणतस्तिष्ठेत्स शिवसन्निधौ ॥ १० ॥
। इति वराटः॥ भूमिजं वै मल्लतलं मत्तालम्बैस्तु सन्मुखः । सान्धारमथवा कुर्यात् कस्तो ? मिश्रकोद्भवः १॥ १०१॥
इति सन्मुखः॥ चत्वारिंशदिमे प्रोकाः प्रयुक्ताः श्रीधरादिकाः । सर्वे शस्ताश्च शुभदाः सर्वकामफलप्रदाः ॥ १०२॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायो
श्रीधरादि प्रासादलक्षणाधिकारो नाम त्रिषष्ट्युत्तरशततमं सूत्रम् ।।