________________
४०९
अपराजितपृच्छा सिद्धार्थस्य च संस्थाने तद्रपे तदवस्थिते। विमानं पञ्चभूमं च कुर्याच्छ्रङ्गं तु कामदम् ॥ ७६॥ हंसध्वजस्तदा नाम चतुरिरलकृतः । चतुर्भिर्मण्डपैः ख्यातः स्वर्गादिभोगदायकः ।। ७७ ॥
इति हंसध्वजः। पूर्व पृथ्वीजयश्चैव षण्णवत्युत्तरं शतम् ।। रेखोचे तिलकं कुर्यानन्दिका तिलकंतथा ॥७८॥ अण्डकैः सप्तत्रिंशद्भिर्लक्ष्मीधर इतीरितः । रमते तत्र लक्ष्मीश्च सहिता विष्णुना सदा ॥ ७९ ॥
इति लक्ष्मीधरः॥ वृत्तं पूर्व च परिधौ षट्त्रिंशद्भिर्विभाजिते। द्विपदाः सूर्यकर्णाश्च पादा द्वादश कर्णिकाः ॥ ८० ॥ मण्डोवरश्च पादोनः सपादाः शिखरोच्छ्रयः। षड्भूमिकयुतश्चैव वज्रकः सर्वकामदः ॥ ८१॥
इति वज्रकः ॥ श्रीनिवासस्य संस्थाने तद्रूपे तदयस्थिते । चतुष्की भद्रप्राग्नीवे तदने वेदमण्डपाः ॥ ८२॥ सार्धेषु भूमिकोत्सेधं माडं कुर्याच्च कामदम् । रतिदेहस्तदा नाम कामदेवस्य चालयः ॥ ८३॥ ..
इति रतिदेहः । भद्रक पूर्वविज्ञेयं यदुक्तं रुचकादिके। भद्रोद्गमसमायुक्तः सिद्धिकामस्स उच्यते ॥ ८४ ॥
इति सिद्धिकामः॥ नन्दिशालगुणैर्युक्तस्त्यतैकानोरुमारीः । मत्तालम्बं ततः कुर्यात् स भवेत् पञ्चचामरः ॥ ८५॥
इति पञ्चचामरः ॥ रतिदेहत्रिभूम्यूचे कुर्याञ्च शिखरोत्तमम् ।। नन्दिघोषस्तदानाम कर्तव्यः सर्वदैवते ॥ ८६॥
इति नन्दिघोषः॥ अष्टांशैश्च कृतं क्षेत्रं ह्यष्टभद्रमलङ्कृतम् । अष्टकर्णोदकैर्युक्तं तद्रपं शिखरोत्तमम् ॥ ८७ ॥ मनूत्कीर्ण तदा नाम चतुर्दश मनुप्रियम् । विधेर्विष्णो रवेः कुर्याच्छिवस्यापि विशेषतः ॥ ८८॥
इति मनूत्कीर्णः॥ विशाले कर्णतिलक काँधै तिलकं तथा।। चतुः प्राग्नीवसंयुक्तः सुप्रभो नाम नामतः ॥ ८९॥
इति सुप्रभः ॥ भूमिजं वै मल्लतलं कणे कुटं चद्राविडम् । वराटं तु प्रतिरथे सुरानन्दः स उच्यते ॥९॥
इति सुरानन्दः॥
५२ अ.