________________
श्रीधरादिप्रासादलक्षणाधिकारो नाम त्रिषटयुत्तरशततमं सूत्रम् ॥ कणे प्रतिरथे चैव द्वे द्वे शनेच कारयेत् । अष्ट सप्ताण्डका: कर्णाः प्ररथाश्च षडण्डकाः ॥ ६१ ॥ उरःशृङ्गाण्यष्ट कुर्यात् प्रत्यङ्गानि ततोऽष्टभिः । भद्रं संवरणायुक्तं कुर्यात् त्रैलोक्यभूषणम् ।। ६२॥ कर्णाश्चाष्टदला: कार्याः प्रत्यङ्गे वर्धमानकः। घण्टाकलशशोभायः कर्तव्यः शुभलक्षणः ।। ६३ ।।
__इति त्रैलोक्यभूषणः ।। द्वात्रिंशद्भक्ते परिधौ वृत्ताकारस्तु पूर्ववत् । द्वि द्वि भागं भवेत्कर्णः पद्मपत्राकृतिस्तथा ॥ ६४ ॥ मण्डोवरश्च पादोनः सपादा शिखरोन्नतिः । तलच्छन्दोद्भवं रूपं पञ्च भू घण्टिकावधि ॥ ६५ ॥ पद्माख्यश्च तदा प्रोक्तः पद्मनाभस्य मन्दिरम् । कर्तृकावरकाश्चैव विष्णुलोकं ब्रजन्ति हि ॥६६॥ दशधाभाजिते छन्दे द्विभाग: कर्णविस्तरः। भाग भागं भवेत्कर्णी वेदांशो भद्रविस्तरः ॥६७ ॥ द्विभागो भद्रनिष्कास एकभागा च कर्णिका । द्विभागा च भवेद् भित्तिः शेषं गर्भगृह मतम् ॥ ६८ ॥ मण्डोवरश्च पादोन: सपादा शिखरोन्नतिः । कुर्यात् कर्णेषु कूटानि विमान पञ्चभूमिकम् ॥ ६९ ॥ भद्रे भद्रे तु प्राग्नीवाच्छाद्यघण्टाद्यलकृताः । पक्षयाहुस्तदा नाम कर्तव्यः सर्वदैवते ॥ ७० ॥
इति पक्षबाहुः ॥ प्रयोदशाण्डक पूर्व नागरच्छन्दनन्दनः । चतुर्दारेषु प्राग्नीवाः विशालस्तु शिवालयः ॥ ७१ ॥
इति विशाल: वृत्ताकारो ह्यसौ पूर्वः परिधिर्युगवेदतः। कर्णाश्च द्विपदाः प्रोक्ता भ्रद्रं वै पञ्चविस्तरम् ।। ७२ ॥ चतुर्भद्रं सूर्यकर्णा विकणे तत्र लाञ्छिताः। मण्डोवरश्च पादोनः सपादः शिखरोदयः ॥ ७३ ॥ पञ्चभूमिसमायुक्त एकषष्टिस्तथाण्डकाः ।। घण्टाकलशपूर्व च शुकाग्रं समलङ्कृतम् ॥ ७४॥ विधेर्विष्णो रवेः कुर्याच्छिवस्याऽपि विशेषतः । जगतीगर्भसम्युक्तं नाम्ना वै कमलोद्भवम् ॥ ७५ ॥
इति कमलोद्भवः ।।