________________
अपराजित पृच्छा
क्षेत्रष्टादशधा भक्के वेदांशः कर्णविस्तरः । कर्णिका चैकभागा स्याद् भद्रं चाऽष्टांशविस्तरम् ॥ ४५ ॥ भद्रावलोकनं कुर्याद् भित्तिकर्णेषु कर्णिका: । कर्णे च सर्वतोभद्रं श्रीवत्सस्तस्य कर्णिका ॥ ४६ ॥ अर्धोदये चादिभूः स्याच्छेषा वै पादभागिकाः । तृतीया भूमिका चोर्ध्वं ततो माडान्निवेशयेत् ॥ ४७ ॥ सार्धचतुर्भूमियुक्तः पूर्णः स्यात्सर्वकामदः । पूर्णस्वर्गसुखं लोके स्वर्गे वा भूमिशासनम् ॥ ४८ ॥ इति पूर्णः ॥
सुदर्शनस्य संस्थाने तद्रूपे तदवस्थिते । कर्णे च सर्वतोभद्रं स तु सिद्धार्थको भवेत् ॥ ४९ ॥ इति सिद्धार्थकः ॥
वृत्तं पूर्ववत् परिधौ चतुर्विंशतिभाजिते । शस्ता द्वयंशा अष्टकर्णा अन्तरे कर्णिकाः पदाः ॥ ५० ॥ शङ्खावर्तसमं मध्ये वितानं दिव्यभूषणम् । तद्रूपं शिखरं कार्य शङ्खावर्त च मण्डपम् ॥ ५१ ॥ शङ्खवर्धननामाऽसौ कर्तव्यो विष्णुमन्दिरम् । कर्ता यायाद्विष्णुलोके यावदाभूतसंप्लवम् ॥ ५२ ॥ इति शङ्खवर्धनः ॥
त्रैलोक्यभूषणं वक्ष्ये वन्दितं त्रिदशैरापे । शतार्धहस्त के ज्येष्ठो मध्यो दशकरोनकः ॥ ५३ ॥ त्रिंशद्धस्तैः कनिष्ठः स्यात्रिधोदितक्रमागतः । वल्लभः सर्वदेवानां शिवस्यापि विशेषतः ॥ ५४ ॥ त्रिंशद् भागैस्त्रिधा भक्ते गर्भः स्याद् दशभागिकः । द्वौ द्वौ भागौ भ्रमो भित्तिः कर्तव्यमविशङ्कितैः ॥ ५५ ॥ भित्तित्रयं प्रकर्तव्यं तथा च भ्रमणीद्वयम् । भद्रकं मध्यच्छन्देषु द्वितीये वर्धमानकः ॥ ५६ ॥ अन्तर्भिन्ति परित्यज्य कुर्यात् षड्दारुकद्वयम् । त्रैलोक्यभूषणं] बाह्ये भद्रे चन्द्रावलोकनम् । वृत्तस्य पञ्चमांशे तु भित्तिः शेषस्तु गर्भकः ॥ ५७ ॥ चतुष्पदा रथाः कर्णा एकभागा च कर्णिका । भद्रकर्णी भवेद् भागा भद्रं स्याद्दिक्प्रविस्तरम् ॥ ५८ ॥ अङ्गमानेन निष्कासो भद्रं पञ्चांशनिर्गमम् । पादमानोच्छ्रितं पीठं पञ्चपीठादिभूषणम् ॥ ५९ ॥ उपपीठं तथा जङ्घा मेखला कूटच्छाद्यकम् | त्रयोविंशतिरुत्सेधे भद्रं षोडश चोन्नतम् ॥ ६० ॥
૩૦૭