________________
४०६
श्रीधरादिप्रासादलक्षणाधिकारो नाम विषयुत्तरशततमं सूत्रम् ॥ कणे नन्दनपर्यन्तं तिलकं तत्र कारयेत् । शेषं च पूर्ववद शेयं नाम्ना विजयभद्रकः ॥ ३०॥
इति चिजयभद्रः॥ प्रतिरथोऽर्धनिष्कास: संस्थाने श्रीधरस्य च । क्रममूर्व परित्यज्ज कणे वै सर्वभद्रकम् ॥ ३१ ॥ तदुर्घमुदकं कुर्यात् प्रमाणेन पृथुत्ववत् । सप्तविंशतिभक्तं च पृथुध्ने भद्रकाकृतिः ॥ ३२॥ द्वितीया भूमिका मूर्ध्नि ततो माडाश्चतुष्किकाः । कर्णे भद्रे प्रकर्तव्या ऊचे मध्यचतुष्किका ।। ३३ ।। मत्तावरणछाद्ययुग् घण्टाकूटैरलङ्कृता । भद्रोद्गमाश्च शृङ्गोचे माडाद्याश्चाद्यभूमिका ॥ ३४ ॥ श्रीनिवासस्तदानाम यत्र वै रमते ध्रुवम् । भुक्त्यर्थं च प्रकर्तव्यः प्रासादः सूरपूजितः ॥ ३५ ॥
इति श्रीनिवासः ।। पुष्पकस्य च संस्थाने तद्रूपे तदवस्थिते । भद्रकं कर्णतिलकं भद्रे स्यात् सिंहकर्णकः ॥ ३६ ।। सुदर्शनस्तदा नाम कर्तव्यं विष्णुमन्दिरम् । क्रीडते विष्णुलोके च सेव्यते सुरयोषिता ॥ ३७॥ चतुरश्रीकृते क्षेत्रेऽष्टकर्णा भिन्नसूत्रतः। कर्णार्धा च भवेत् कर्णी उभयकर्णमध्यतः ॥ ३८ ॥ कूटावृतः पञ्चभमो धण्टाकलशभूषितः। तद्पं मण्डपं पीठं लभतेऽनङ्गशर्म च ॥ ३९ ॥
इति पुष्पशिखरः॥ द्वितीयकं क्रमं त्यक्त्वा पूर्ववद्रिपुकेशरी । तिलकं तत्र संस्थाने स भवेत् सुरसुन्दरः ॥ ४० ॥
इति सुरसुन्दरः ।। चतुरश्रीकृते क्षेत्रे कर्णान्ते वत्तकं भवेत् । अष्टचत्वारिंशदशैः परिधिं च प्रकल्पयेत् ॥४१॥ विदिक्षु दिक्षु भद्राणि चतुष्पादानि कल्पयेत् । पृथक् कर्णाश्च द्विपदा एकैकं भद्रकान्तरे ॥४२॥ द्विक्रमोर्वे तु रेखाश्च भद्रे वै सिंहकर्णकाः। पञ्चभूमोर्चे-शिखरं घण्टाकलशभूषितम् ॥ ४३ ॥ तद्रूपं मण्डपं पीठं नाऽन्यत्रैवं स्वरूपतः । नन्दते स चिरं लोके नन्द्यावर्तः स उच्यते ॥४४॥
इति नन्द्यावर्तः॥