________________
४०५
अपराजितपृच्छा घण्टाकलशशुकाग्रपताकाध्वजशोभितः। श्रीरानन्दो भवेन्नित्यं स्वर्गे वा भूमिशासने ॥ १५ ॥
इति श्रीधरः॥ . चतुरश्रीकृते क्षेत्रे शतमूलविभाजिते । द्विभागः कर्णइत्युक्तः सार्धः प्रतिरथो भवेत् ॥ १६ ॥ त्रिभागो भद्रविस्तारो निर्गमस्तु तदर्धतः । सार्धभागः प्रतिरथ-निर्गमश्च प्रकीर्तितः ॥ १७ ॥ भागं भागं भ्रमो भित्तिः शेषं गर्भगृहं भवेत्। मण्डोवरजगत्याद्यं पूर्वमानप्रकल्पितम् ॥ १८॥ कणे च नन्दनं कुर्यात् केशरी प्ररथे भवेत् । भद्रे शृङ्गद्वयं कुर्यात्तिलकं तिलकोपरि ॥ १९ ॥ रेखा षडंशविस्तारा तिलक सार्धमुच्छ्रितम् । प्रत्यङ्गं नष्टकर्ण व हेमकूटः स उच्यते ॥२०॥ हेमरत्नपुरे रम्ये हेमप्राकारशोभिते ।। ईप्सितं लभते राज्यं स्वर्ग वा भूमिशासने ॥२१॥
इति हेमकूटः॥ ऋत्वकचन्द्रवेदाणे वेदतुगर्भ उच्यते । शशी चन्द्रश्चन्द्रश्च भ्रमोभित्तिश्च कल्पिता: ॥ २२ ॥ वेदकर्णऋतुभद्रमुदकान्तरभूषितम् । कर्णं च सर्वतोभद्रं भने चन्द्रावलोकनम् ॥ २३ ॥ दिग्भागं मूलशिखरं घण्टाकलशभूषितम् । सुभद्रो नाम विज्ञेयः सर्वकल्याणकारकः ॥ २४॥
इति सुभद्रः॥ कणे द्वितीयमुपरि सर्वतोभद्रकं भवेत् । द्विभागं तिलकं कुर्यात् प्ररथे चोरुमञ्जरी ॥२५॥ मत्तालम्बयुतं भद्रं नाम्ना स रिपुकेसरी । हन्ति सर्वान् रिपूंश्चासौ इहलोके परत्र च ॥ २६ ॥
इति रिपुकेसरी ॥ सुभद्रस्य च संस्थाने तद्रूपे तदवस्थिते । कणे चाष्टदलं कुर्यात्तिलकं चैव शोभनम् ॥ २७ ॥ तद्वसन्तमहोराज्ये प्राप्यते जन्मजन्मनि । पुष्पकः पुष्पप्रकर-युक्तो वाराङ्गना यथा ॥ २८ ।।
इति पुष्पकः ॥ हेमकूटस्य संस्थाने तद्पे तदवस्थिते। कर्णेकुर्यादितिलक केशरी च भवेदथ ॥ २९ ॥