SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ (१६३) श्रीधरादिप्रासादलक्षणात्मकं त्रिषष्टयुत्तरशततमं सुत्रम् ॥ अपराजित उवाच पुष्पकाः कथिता देवानेकपुष्पकसंकुलाः । कथयस्व तथान्यांश्च ये प्रोक्ता: श्रीधरादिकाः॥१॥ विश्वकर्मोवाच अथातः सम्प्रवक्ष्यामि प्रासादान् श्रीधरादिकान् । नामलक्षणसम्युकान वास्तुवेदसमुद्भवान् ॥ २॥ श्रीधरो हेमकूटश्च सुभद्रो रिपुकेसरी । पुष्पो विजयभद्रश्च श्रीनिवास; सुदर्शनः ॥ ३ ॥ कुसुमकेशर नामा च तथा च सुरसुन्दरः । नन्द्यावर्तश्च पूर्णश्च सिद्धार्थशववर्धनः ॥४॥ त्रैलोक्यभूषण: पद्मो वज्रबाहु विशालकः । कमलोद्भवहंलौ च लक्ष्मीधरोऽतिवज्रकः ॥५॥ रतिदेहः सिद्धिकामः पञ्चचामरसंशकः । नन्दिघोषो मनुनूत् कीर्णः सुप्रभः सुरनन्दनः ॥६॥ हर्षो दुर्धरो विजयस्त्रिकूटो नवशेखरः । पुण्डरीकः सुनाभश्च महेन्द्रः शिखिशेखरः ॥ ७॥ वराटः सुमुखश्चेति चत्वारिंशत् प्रकीर्तिताः । शुद्धच्छन्दास्तथैते च मिश्रकास्तु दशैव च ॥८॥ शुद्धानां लक्षणं वक्ष्ये विभक्ति भागसङ्ख्यया। तलच्छन्दमलङ्कारैः प्रयुक्तं वास्तुवेदिभिः ॥९॥ चतुरधीकृते क्षेत्रे चतुर्विंशतिभाजिते । कर्णः प्रतिरथो भद्रं वेदैवेदैस्तथाऽष्टभिः ॥ १० ॥ त्रिनिष्कास: प्रतिरथो भद्रं वेदांशनिर्गमम् । छौ द्वौ भागौ तथा भित्ती भ्रमणी वेदविस्तरा ॥ ११ षड्दारुकं भ्रमादौ च चतुःषष्टिश्च गर्भकः । सार्धायामो मण्डपश्च जगतीषु गुणोत्तमा ॥ १२ ॥ पाठोपपीठजङ्घाश्च मेखलाकूटच्छाद्यकम् । प्रशस्तं नागरे नाम भने चन्द्रावलोकना ॥ १३॥ कणे भद्रे द्विद्विशङ्गमेकं प्रतिरथे भवेत् । पञ्चविंशत्यण्डकस्तु श्रीधरश्च सुरालयः ॥ १४ ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy