________________
४०३
अपराजितपृच्छा बृहच्छृङ्गे मल्लतलं तदने च विमानकः । प्रत्यङ्गं चैव तद्रूपं बृहच्छालः स उच्यते ॥७७ ॥
इति बृहच्छालः ॥२१॥ कुर्याश्चतुष्पुष्पकं च कर्णे प्रतिरथोर्ध्वतः। सदा नाम्ना हंस इति ब्रह्मणश्च सदा प्रियः ॥ ७८ ॥
इति हंसः ॥२२॥ कुर्याद् द्विपुष्पर्क करें स भवेत्सर्वसुन्दरः। सर्षदेवे शुभः शस्तः सर्वकामफलप्रदः ॥ ७९ ॥
इति सर्वाङ्गसुन्दरः ॥ २३ ॥ विंशतिर्धामविस्तारो वेदांश: कर्णविस्तरः । त्रिभिर्भागैः प्रतिरथो निर्गमो विस्तरस्तथा ॥ ८॥ षडशो भद्रविस्तारस्त्रिभागश्चास्य निर्गमः। द्वौ द्वौ भागौ भ्रमो भित्ती शेषं गर्भगृहं भवेत् ॥ ८१ ॥ कण पृथ्वीजयं कुर्यान्मन्दरं प्ररथे तथा। द्विपुष्पकयुतं भद्रं प्रत्यङ्गे पुष्पकं तथा ॥ ८२ ॥ मूलरेखां मल्लतले षोडशांशैश्च विस्तरः । स पुष्पविजयो नाम्ना सर्वदेवहितात्मकः ॥ ८३ ॥
इति पुष्पकविजयः॥ २४॥ विमानं वृद्धोरुशृङ्गं पुष्पकं प्रतिभद्रके। भद्रे द्विपुष्पकं कुर्यात् प्रत्यङ्गे चैव पुष्पकम् ॥ ८४॥ मेरुश्चासौ समाख्यातः कर्तव्यः सर्वदेवते। मेरुमैरूपमो दिव्यः सर्वरत्नमयोऽपि च ॥ ८५ ॥ पतैश्च लभ्यते पुण्यं पूजा स्याच्छिवमोदिका ॥८६॥
इति मेरुः ॥ २५ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
पुष्पकादिप्रासादलक्षणाधिकारो नाम द्विषष्टयुत्तरशततमं सूत्रम् ।।