________________
-४०२
पुष्पकादिप्रासादलक्षणात्मक द्विष्षष्टयुत्तरशततम सूत्रम् ॥
प्रत्यङ्गके पुष्पकवदसौ सुव्रतसंज्ञकः । क्रियते यैः शुभं तेषामिह लोके परत्र च ॥ ६३ ॥
इति सुव्रतः ॥ १४ ॥
तृतीयं पुष्पकं दद्यात्स भन्दमृतोद्भवः । येन प्राप्येताऽमरत्वं भुक्तिश्च त्रिदशैः सह ॥ ६४ ॥
इत्यमृतोद्भवः ॥ १५ ॥
कर्णिका चैकभागा स्याच्छेषं पूर्वप्रकल्पितम् । षट्पञ्चाशं द्विशतकं वास्तुसंस्थानमेव च ॥ ६५ ॥ महोरः शृङ्गं विमानं प्रत्यङ्गाद्यं सपुष्पकम् । सर्वशृङ्गं नन्दनवत् क्रमात्रित्रिभिरावृत्तम् ॥ ६६ ॥ गुहराजस्तदा नाम कर्तव्यः सर्वदैवते । कैलाससदृशं चैव गृहं जन्मसु निश्चलम् ॥ ६७ ॥
इति गृहराजः ॥ १६ ॥
बृहच्छ्रङ्गे मल्लतलं विमानस्तस्य चाग्रतः । कार्यो विमानः प्रत्यङ्गे सिद्धिकामः स सिद्धिदः ॥ ६८ ॥ इति सिद्धिकामः ॥ १७ ॥
तृतीयं पुष्पकं कुर्यात् कर्णे प्रतिरथे तथा । नन्दिघोषस्तदा नाम सर्वदैवतवल्लभः ॥ ६९ ॥
इति नन्दिघोषः ॥ १८ ॥
क्षेत्रेादशधा भक्ते त्रिभागः कर्णविस्तरः | रथोपरथिको चैव द्वौ द्वौ भागौ प्रकल्पयेत् ॥ ७० ॥ वेदांशो भद्रविस्तारस्तदर्धेन च निर्गमः ।
द्वौ भागौ भ्रमो भित्ती शेषं गर्भगृहं भवेत् ॥ ७१ ॥ कुर्याच्च मन्दरं कर्णे पञ्चविंशतिरण्डकाः । पृथग् द्विभागविस्तारो नन्दनः स्यात्तदूर्ध्वतः ॥ ७२ ॥ शतमूले भवेद्रेखा तथा मल्लतलोद्भवा । घण्टा कलश शोभाढ्या सर्वकामफलप्रदा ॥ ७३ ॥
शृङ्गद्वयं प्रतिरथे एक चोपरथे तथा । त्रिपुष्पकयुतं भद्रं प्रत्यङ्गं च सपुष्पकम् ॥ ७४ ॥
एवंविधः प्रकर्तव्यः प्रासादोऽसौ सुनन्दनः । 'भुक्त्वा तु भूमिजान् भोगान् स्वर्गे नन्दति भूपतिः ॥ ७५ ॥ इति सुनन्दनः ॥ १९ ॥
महोर:शृङ्गः पुष्पको विमानः पञ्चभूमिकः । तारागणः समाख्यातः प्रासादो ह्यमरालयः ॥ ७६ ॥
इति तारागणः ॥ २० ॥