________________
४०१
.. अपराजितपृच्छा पीठोपपीठजङ्घाश्च मेखलामल्लच्छाधकम् । शुका मण्डपाद्यं च पूर्वमानप्रकल्पितम् ॥ ४८ ॥ कणे शङ्गद्वयं कुर्यान्नन्दनेन समावृतम् ? । प्रतिरथे च तत्तुल्यं कर्तव्यं शान्तिमिच्छता ॥ ४९ ॥ दिग्विस्तरं च शिखरं त्रयोदशसमुच्छ्रितम् । तपमानं मल्लं तु एकषष्टिस्तथाण्डकाः ॥५०॥ उर:शृङ्गक्रमयोगे पुष्पकद्वयमुद्गमे । प्रत्यके पुष्पकं कुर्यात् तबगाकाररूपिणम् ॥ ५१ ॥ घण्टा कुम्भशुकाग्रे च जगत्याद्यं च पूर्ववत् । एवंदिधः प्रकर्तव्यः प्रासादोऽयं तु दुन्दुभिः ॥५२॥ क्षेमं चाऽत्र सुभिक्षं च नृपादौ वर्धते प्रजा । धर्मार्थकाममोक्षाणां प्राप्तिहेतुरभीप्सितः ॥ ५३॥
इति दुन्दुभिः ॥७॥ तृतीयं पुष्पकं दद्यात् स भवेत् प्रान्तसंशकः । प्राप्नोति भोगं मुक्ति च स्वर्गे वा प्रभुशासनम् ॥ ५४ ॥
इति प्रान्तः॥८॥ स्यकृत्वा पुष्पकमेकं च भद्रं पञ्चांशविस्तरम् ।। अलङ्कृतं संवरणनिभिर्भागश्च निर्गमः ॥ ५५॥ एवं गरुडमाख्यातं कुर्याद यो विष्णुमन्दिरे । प्राप्नोति विष्णुलोकं स यावदाभूतसंप्यूवम् ॥ ५६ ॥
इति गरुहः॥९॥ पुनः कुर्यात्तथा भद्रमुरःशृङ्ग विमानके। प्रत्यङ्गाग्रे पुष्पकश्च स भवेच्चारुवर्धनः ॥ ५७ ॥ वर्धते धनपुत्रैश्च जन्मजन्मनि भूतले।। अतस्तु भोगभोक्ता स्यात् स्वर्गे भूयोऽपवर्गभाक् ॥ ५८॥
इति चारुवर्धनः ॥ १०॥ मत्तालम्बद्वयं भद्रे सिंहनामा स शोभनः। पार्वत्यादिकदेवीनां सर्वासां शान्तिदायकः ॥ ५९॥
इति सिंहः ॥ ११ ॥ द्वितीयं चाऽपि प्रत्यङ्ग कुर्यात् कुमुदवञ्च तत् । पद्मसम्भवनामानौ कर्तव्यो परमेष्ठिते ॥ ६०॥
इति पद्मसम्भवौ ॥१२-१३ ॥ पद्मसम्भवसंस्थाने तद्पे तद्वस्थिते ।। कणे प्रतिरथे चैव क्रमाद्दद्यात्तृतीयकम् ॥ ६१ ॥ पूर्वोदगमसमाकारस्वरूपं लक्षणान्वितम् । उर:शृङ्ग परित्यज्य भद्रे दद्याद् द्विपुष्पकम् ॥ ६२ ॥