________________
४००
पुष्पकादिप्रासादलक्षणात्मकं द्विषष्टयुत्तरशततम सूत्रम् ॥ को क्रमसंस्थाने प्रदेयश्चैव केशरी। पादोनद्वयं पृथुत्वं ? सार्धद्वयं समुच्छ्रितिः ॥ ३२ ॥ शङ्ख षडंशविस्तारं सार्थसप्तांशमुच्छ्रितम् । इदं मल्लतलं प्रोक्तमेकषष्टिस्तथाण्डकाः ॥ ३३ ।। मत्तालम्बद्वय भद्रे उर:शृङ्गक्रमेण च।। विधेयं पूर्ववच्छेषं स नन्दः सर्वकामदः ॥ ३४ ॥
इति नन्दः ॥४॥ वेदयुग्मैकवेदाने गर्भः स्याश्चतुरंशतः। द्वे भित्ती भ्रमयुक्त चैकैकं पदं च कल्पयेत् ॥ ३५ ॥ द्विभागः कर्ण इत्युक्तो भागार्ध चैव कर्णिका।। सार्धभागः प्रतिरथो निर्गमे विस्तरे तथा ॥३६ ॥ पुनः कर्णी चार्धभागा त्रिभागो भद्रविस्तरः। निर्गमश्चैकभागेन शिखरादिसमुद्भवे ॥ ३७ ॥ वेदांशो भद्रविस्तारस्तदर्धेन तु निर्गमः ! भद्रावलोकनं कुर्याच्छाद्यघण्टासमन्वितम् ॥ ३८॥ विधेयं पूर्ववच्छेषं पीठाद्यं छाद्यकान्तकम् । नागरोक्तविधं मानं प्रयुक्तं वास्तुवेदिभिः ॥ ३९ ॥ उक्तद्विक्रमके कणे नन्दनः सर्वतो भवेत् । प्ररथे सर्वतोभद्रं शङ्ख मल्लतलं तथा ॥४०॥ द्वौ पुष्पकौ युतौ भने तवनाकाररूपिणौ। प्रत्यङ्गे पुष्पकं कुर्याच्छाद्यघण्टाद्यलकृतम् ॥ ४१ ॥ घण्टाकुम्भशुकाप्रे च जगतीमण्डपादिकम् । पूर्ववञ्च विधातव्यं प्रशस्तं सर्वकामदम् ॥४२॥ श्रीधरोऽयं समाख्यात: प्रासादो देवतालयः । लक्ष्म्यानन्दयुतो नित्यं कर्तुः सन्तानवर्धनः ॥ ४३ ॥
इति श्रीधरः ॥५॥ तद्पश्च तदाकारो युक्तः पूर्वगुणैस्तथा।। तृतीयः पुष्षको भद्रे विशालः सर्वशान्तिदः॥४४॥
इति विशालः ॥६॥ ऋत्वकचन्द्रवेदाश्रे गर्भस्यारिराष्ट्रकै ?। भ्रमभित्तिश्चैकपादा द्विभागा बाह्यभित्तयः ॥ ४५ ॥ द्विभागः कर्णइत्युक्तो भागाधं चैव कर्णिका । कर्णतुल्य: प्रतिरथो विस्तरे निर्गमे तथा ॥४६॥ पुनश्च कर्णिका भाग वेदांशो भद्रविस्तरः। निर्गमश्च तदर्धन कर्तव्यः शान्तिसिद्धिदः ॥४७॥