________________
अपराजित पृच्छा
प्रहरस्य ततश्चोर्ध्व त्रिभागं शृङ्गमुन्नतम् | लताख्यसर्वतोभद्रं कर्णे कर्णे नवाण्डकम् ॥ १५ ॥ षडंशं मूल शिखरमष्टभागसमुन्नतम् | विमानं पञ्चभूमं च शृङ्गेविंशतिभिर्वृतम् ॥ १६ ॥ अर्धोदयका घण्टा च विभक्ता पञ्चभागतः । कण्ठो ग्रीवा कुडूमलं च पद्मच्छत्रोपच्छत्रकम् ॥ १७ ॥ तदूर्ध्वे कलशं स्थाप्यं क्षीरार्णवसमुद्भवम् । मत्तलम्बयुतं भद्रं पुष्पकैः समलङ्कृतम् ॥ १८ ॥ समत्तावरणच्छ्राद्यं घण्टा कुटैरलङ्कृतम् । द्वितीयभूमिको तु घण्टा वै पुष्पकोन्नता ॥ १९ ॥ इमं यः कारयेश्चैवं प्रासादं पुष्पकाह्वयम् । पुष्प कीर्ण भवेद्राज्यं स्वर्गे वा भूमिशासने ॥ २० ॥ इति पुष्पकः ॥ १ ॥
चतुरश्रीकृते क्षेत्रे शतमूल विभाजिते । भागं भित्तिभ्रमो भागं गर्भश्चन्द्रकलांशकैः ॥ २१ ॥ अतश्चैवं निरन्धारान् प्रकुर्याश्च भ्रमैर्विना ।
त्रिंशत्पदको गर्भः शेषा भित्तिर्द्धिभागिका ॥ २२ ॥ द्विभागः कर्ण इत्युक्तो द्विभागो भद्रविस्तरः । भद्रार्धे च प्रतिष्ठानमुभयोरपि पक्षयोः ॥ २३ ॥ निर्गमचैकभागेन भद्रे प्रतिरथेऽथवा । तलच्छन्दमिति प्रोक्तमूर्ध्वमानमतः शृणु ॥ २४ ॥ चतुरो नन्दनान्कर्णे कुर्याच्च विधिपूर्वकम् । शिखरं चाटविस्तारं सार्धदिग्भिः समुच्छ्रितम् ॥ २५ ॥ मल्लतलं पञ्चभूमं षष्टिशृङ्गसमावृतम् । कर्णे पञ्चाण्डकाः कार्याः श्रीवत्सः प्ररथे तथा ॥ २६ ॥ अर्धोदये भवेद् घण्टा कलशं भूमिजावृतम् । उरः शृङ्गकमयोगे द्वौ द्वौ मतावलम्बकौ ॥ २७ ॥
पीठोपपीठजङ्घाश्च मेखलामाल्यछाद्यकम् । नागरच्छन्द आख्यातः पूर्वमान प्रकल्पितः ॥ २८ ॥
शुकनासाग्रसंयुक्त- दिव्यम० उपभूषितम् ।
जगत्यात तया युक्तं कुर्याच्छान्ति ? च्छृङ्गसमुच्छ्रितम् ॥ २९ ॥ इत्थं यः कारयेच्चैव प्रासादं विजयोद्भवम् ।
लभेत पर माल्लोकान् भुक्त्वा भोगान् स स्वर्गजान् ॥ ३० ॥ इति विजयः ॥ २ ॥
विजयस्य च संस्थाने केशरी प्ररथे भवेत् । सुभद्रो नाम विज्ञेयः कर्तुः कल्याणकारकः ॥ ३१ ॥
इति सुभद्रः ॥ ३ ॥
३९९