________________
(१६२) विमाननागरच्छन्दजपुष्पकादिप्रासादलक्षणात्मक
द्विषष्टयुत्तरशततमं सूत्रम् ॥
अपराजित उवाच--
विमाननागरच्छन्दे पुष्पकैश्च विभूषिते । विमानपुष्पकच्छन्दाः कमान्नागरजातयः ॥१॥ कथं विभक्तिच्छन्दाश्च रूपालङ्कारका वृत्ताः ।
कथयस्व प्रसादेन विश्वेश जगत; प्रभो ॥२॥ विश्वकौवाच
अथात: सम्प्रवक्ष्यामि प्रासादानां तु लक्षणम् | विभक्तिच्छन्दमाकारं प्रयुक्तं पुष्पकादिकम् ॥ ३॥ पुष्पको विजयश्चैव सुभद्रो नन्दधीधरौ। विशालो दुन्दुभिः प्रान्तो गरुडश्चारुवर्धनः॥४॥ सिंहः पद्मः सम्भवश्च सुव्रतश्चाऽमृतोद्भवः । गृहराज; सिद्धिकामो नन्दिघोष: सुनन्दनः ॥५॥ तारागणो बृहच्छालो हंसः सर्वाङ्गसुन्दरः। तथा च पुष्पविजयो मेरुः प्रासादनायकः ॥ ६॥ पञ्चविंशतिरित्युक्ताः प्रासादाः पुष्पकादयः। वल्लभाः सर्वदेवानां विमानपुष्पकास्तथा ॥ ७ ॥ चतुरश्रीकृते क्षेत्रे अशाष्टकविभाजिते । क्षेत्रार्घ च भवेद् भद्रं भद्रार्ध कर्णविस्तरः॥ ८॥ कर्णार्धस्य प्रमाणेन कर्तव्यो भद्रनिर्गमः । भद्रोपभद्रयुक्तर्ण उदकान्तरभूषितः ॥९॥ वेद ऋत्वाङ्गवेदाने वेदगर्भसंस्थितिः । सूर्या भित्या भ्रमनेच वसुयुग्मैस्तलिविया ॥ १० ॥ वेदऋत्वान्तवेदाधे वेद वा लिङ्गपीठयोः । आयवत्सादि सूर्यैश्च विग्मंशेषभित्तियाः ? ॥ ११ ॥ पीठोपपीठजङ्घाश्च मेखलामाल्यच्छाद्यकम् । यन्मानं नागरे प्रोक्तं तच्छस्तं सर्वकामदम् ॥ १२॥ सान्धारेषु प्रकर्तव्या भद्रे चन्द्रावलोकना । मण्डोवरपञ्चमांशहीनं भद्रेषु छाधकम् ॥ १३॥ या तदूचे संवरणा घण्टाकूटैरलता। उद्गमे सिंहकर्णाढ्या भद्रे भने प्रशस्यते ॥ १४ ।।