________________
३९७
अपराजितपृच्छा भद्रे सिंहावलोका वै उद्गमाकारसंस्थिताः । अष्टौ भद्रेषु कर्तव्याः सिंहभद्रः स नामतः ॥ १७ ॥ अशीत्यशैश्व परिधौ चतुर्भद्रं षडष्टतः । कर्णाश्च द्विपदा उक्ता भद्रमध्ये त्रयस्त्रयः ॥१८॥ इन्द्र मिश्रस्तदा नाम पूजितस्त्रिदशैरपि । भद्रं रथाश्चतुष्पादाः षण्णवत्यंशतस्तलम् ॥ १९ ॥ द्वे द्वे शृङ्गे च भद्रेषु पद्माक्षः स तु नामतः। कर्णाश्चाष्टदलाः कार्याः कीर्तिदः सर्वशोभनः ॥ २० ॥ प्राग्ग्रीवाश्चैव भद्रेषु स्थिता दिक्षु विदिक्षु च । वज्रकाख्यस्तदा नाम शक्रादिसुरवल्लभः ॥ २१॥ प्राग्ग्रीवाश्च तथाऽऽलेख्या ईलिकाकारशोभनाः । चन्द्रकश्च तदा नाम वल्लभो रोहिणीपतेः ॥ २२ ॥ परिधौ षण्णवत्यशैतर्थष्टभद्रं चतुष्पदम् । द्विपदाः षोडशकर्णा हर्षणश्च समीरितः ॥ २३॥ चतुर्भद्रेषु प्राग्नीवाः कर्तव्याः सर्वकामदाः । निषधश्च तदा नाम सुरकिन्नरसेवितः ॥ २४ ॥ भद्रकेषु च सर्वेषु प्राग्नीवांश्च प्रदापयेत् । सर्वाङ्गतिलको नाम सर्वदेवेषु पूजितः ॥ २५ ॥ वज्रकस्य तु कर्णाश्च कुर्यादष्टदलाकृतीन् । आख्यातः स्वामिभरणः पूजितस्त्रिदशैरपि ॥ २६ ॥ कुर्यात् षोडशभद्रपूर:शृङ्गाद्वयं द्वयम् । भिन्नमरुस्तदा नाम लेवितः सिद्धकिन्नरैः ॥ २७ ॥ सर्वे वृत्तास्तु कर्तव्याः प्रासादाः कुम्भकादयः । कैलासच्छन्दजाश्चैव कुम्भकाद्याश्च कामदाः ॥ २८ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
कुम्भकायुद्भवप्रासादाधिकारो नामैकषष्टयुत्तरशततमं सूत्रम् ।।