________________
(१६१) कुम्भकायुद्भवप्रासादात्मकमेकषष्ट्युत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
अथात: सम्प्रवक्ष्यामि प्रासादानां तु लक्षणम् । नामपादप्रमाणं च प्रयुक्तं कुम्भकादिकम् ॥ १॥ कुम्भकः स्वामिभद्रश्च गरुडश्च सुशीलकः। स्वस्तिकश्चैव कैलासो नलिनो भिन्नमन्दरः॥२॥ गजभद्रस्तथा तुङ्ग उदकुम्भश्च मोदकः । गवाक्षः सिंहभद्रश्च इन्द्रमिश्रश्च नन्दकः ॥ ३ ॥ पद्माक्षः कीर्तिदश्चैव वनकश्चन्द्रहर्षणौ । निषधो नाम प्रासादः सर्वकामार्थसाधनः ॥ ४॥ साङ्गतिलको झेयः स्वामिभरण एव च । भिन्नमरुस्तथा नाम प्रासादा देवदुर्लभाः॥५॥ वेदाश्रमष्टभिर्भक्तं कर्णान्ते तु सुवृत्तकम् । पीठोपापीठजङ्घाश्च मेखलाकूटच्छाद्यकम् ॥ ६॥ वृत्ताकारं सर्वमिदं सपादं शृङ्गमुन्नतम् । घण्टाकलशशोभाढ्यं प्राग्नीवापसुशोभितम् ॥७॥ कैलासच्छन्दकोत्पन्न आधः कुम्भकसंक्षितः । कुम्भकादिसमुत्पन्नाः प्रासादाः पञ्चविंशतिः ॥ ८॥ परिधावष्टधा भक्ते द्विद्वयंशं दिक्षु भद्रकम् । निर्गमश्चार्धभागेन स्वामिभद्रश्च नामतः ॥९॥ प्रतिभद्रे पक्षिराज सुशीलो वारिमार्गतः। कर्णाष्टकं चाष्टभद्रं स्वस्तिक; स तु नामतः ॥ १० ॥ भद्रकर्णकयोर्मध्ये भद्रपादे तु कर्णिका। कैलासश्च तदा नाम सिद्धकिन्नरसेवितः ॥ ११ ॥ कुर्याद् भद्राणि तस्यैव भद्रार्धेन विनिर्गतम् । नलिनश्च तदा नाम कर्तव्यो देवतालयः ॥ १२ ॥ षोडशोरस्कशङ्गाणि अष्टभद्रं तु योजयेत् ।। स भिन्नमन्दरः ख्यातः कर्तव्यः सर्वशान्तिदः ॥ १३ ॥ चतुर्भद्रेषु प्राग्ग्रीवा गजभद्रश्च नामतः । कीर्णवृत्तेषु कर्णेषु तुङ्गनामा स उच्यते ॥ १४ ॥ कर्णाश्च कर्णिकाश्चैव स्वस्ववृत्तप्समुद्भवाः । उदकुम्भस्तदा नाम मोदकश्चोदकान्तरे ॥ १५ ॥ अष्टौ प्रान्ग्रीवकान कुर्यात् कर्णयोः स्वस्तिकाकृतीन । गवाक्षस्तु तदा नाम सिद्धकिन्नरसेवितः ॥ १६॥