________________
नागरोद्भवविमानपुष्पकप्रासादलक्षणाधिकारो नाम षष्टयुत्तरशततम सूत्रम् ॥ ३९५
रत्नकूटे मूलरेखा कार्य मल्लतलं तथा। पुष्पकाश्च त्रयो भद्रे विमाने चोरुमअरी ॥ २५॥ सर्वाङ्गसुन्दरो नाम कर्तव्यस्तु शिवात्मजे । उरुमञ्जरी प्रत्यङ्गे तदने च द्विपुष्पकम् ॥२६॥ रेखोचे तिलकं कुर्यात् पुष्पकाकाररूपकः । स ख्यातः पुष्पविजयः कर्तव्य: सर्वकामदः ॥ २७ ॥ तस्य शृङ्गाणि सर्वाणि कुर्यात्पञ्चाण्डकानि च । मेरुसंशकमित्येवं सर्वकामप्रदायकम् ॥ २८ ॥ मल्यातलं द्वादशधा द्विभाग: कर्णविस्तरः। सार्धभागः प्रतिरथो भागार्धा चैव कर्णिका ॥ २९ ॥ चतुर्भागायतं भद्रमर्धभागं तु निर्गतम् । कर्णानुगानि शृङ्गाणि भूमिजे पञ्चभूमवत् ॥ ३० ॥ श्रीवत्से कर्णशङ्गाणि पञ्चभू भूमिजे यथा। कर्णिका चार्धभागा स्यात्पश्चभद्रं विमानके ॥ ३१ ॥ भद्रे कणे च शङ्गाणि त्रिभूमे भूमिजे यथा । कुमुदायस्तदा नाम भद्रलक्षणलंयुतः ॥३२॥ इति सूत्रसन्तानगुणकीर्तिपकाशप्रोक्तृत्रीभुवनदेवाचार्योक्तापराजितपृच्छायां नागरोद्भवविमानपुष्पकप्रासादलक्षणाधिकारो नाम षष्ट्युत्तरशततमं सूत्रम् ॥