________________
अपराजितपृच्छा पृथ्वीजयो भवेत्पूर्व शिखरं वै मल्लतलम् । उर:शङ्गे पुष्पकस्तु स भवेचारुवर्धनः ॥ १३ ॥
इति चारुवर्धनः द्विपुष्पकयुत भद्रं विमाने मञ्जरीद्वयम् । सिंहसंज्ञः स कर्तव्यो देवीनां शान्तिमिच्छता ॥ १४ ॥
इति सिंहः। पञ्चाण्डकानि शङ्गाणि रेखोर्चे तिलकं शुभम् । पद्मसंज्ञस्तदा नाम कर्तव्यः सर्वदैवते ॥ १५॥
इति पद्मः कर्तव्या च तृतीयोरुमारी कुमुदोद्भवा । तदने पुष्पको नन्द्यां तिलकं स तु संभवः ॥ १६ ॥
इति संभवः । पञ्चाण्डकश्च रेखोचे सुभ्रतो नाम शोभनः ।
इति सुभ्रतः। शृङ्गाणि भद्रकर्णेष्वमृतोद्भवो द्विपुष्पकः ॥ १७ ॥
इत्यमृतोद्भवः । रेखोर्चे तिलकं चैव पुष्पकाकारसस्थितम्। गृहराजस्तदा नाम कर्तुः सन्तानवर्द्धनः ॥१८॥
। इति गृहराजः। इन्द्रनीले मूलरेखा उर:शृङ्गे तु पुष्पकः। प्रत्यङ्गे पञ्च तद्रपाः सिद्धिकामः स उच्यते ॥ १९॥
इति सिद्धिकामः। कार्या ऊर्बेऽर्कमार्यः स्वच्छन्दाश्च विमानकाः । नन्दिघोषस्तदा नाम कर्तव्यः सर्वदैवते ॥ २०॥
__ इति नन्दिघोषः। तस्य शृङ्गाणि सर्वाणि कुर्यात् पञ्चाण्डकानि च । सुनन्दनस्तदा नाम सर्वशान्तिप्रदः सदा ॥ २१ ॥
इति सुनन्दनः। प्रत्यङ्गे च उर:शङ्गं कुर्यात् तु कुमुदोपमम् । रेखोर्चे चैव तिलकं स तारागण उच्यते ॥ २२ ॥
इति तारागणः । भद्रे कणे च शङ्गाणि मत्तालम्बद्वयं तथा । बृहच्छालस्तु नाम्नाऽसौ कर्तव्यः सर्वदैवते ॥ २३ ॥
इति बृहच्छालः। रेखोचे च ततः शृङ्गं पश्चाण्डकविभूषितम् । हंस नामा स च प्रोक्तः सर्वदेवेषु शाश्वतम् ॥ २४ ॥
इति हंसः।