________________
(१६०) नागरोद्भवविमानपुष्पकप्रासादलक्षणं षष्ट्युत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
पुष्पको विजयश्चैव सुभद्रो नन्दधीधरौ । विशालो दुन्दुभिः प्रान्तो गरुडश्चारुवर्धनः ॥ १ ॥ सिंहः पद्मः सम्भवश्च सुभ्रतश्चामतोद्भवः । गृहराजः सिद्धिकामो नन्दिघोषः सुनन्दनः ॥२॥ तारागणो बृहच्छालो हंसः सर्वाङ्गसुन्दरः। तथा च पुष्पविजयो मेरुः प्रासादनायकः ॥ ३॥ पञ्चविंशतिरित्युक्ताः प्रासादाः पुष्पकादयः । विमानपुष्पकच्छन्दे सर्वदेवसुखावहाः॥४॥ विशेय: केशरी पूर्व पञ्चाण्डः कर्णशृङ्गतः। विमानं शिखरं कुर्यान्मत्तालम्बेषु पुष्पकः ॥ ५ ॥
इति पुष्पकः। छन्दे च दशधा भक्ते कणे शृङ्गे तु नन्दनः । मल्लतलो रेखायां विजयः पुष्पकद्वयात् ॥ ६॥
इति विजयः। केशरी च प्रतिरथे सुभद्रः सर्वकामदः। कोवे केशरी कार्यः पूर्ववन्नन्दसंशकः ॥ ७ ॥
इति सुभद्रनन्दौ। तृतीयो पुष्पको भद्रे श्रीधरश्चेति संशितः ।।
इति श्रीधरः। मन्दतिलकरेखा कार्या मल्लतले तथा ॥ ८॥ उरुमञ्जरी विमाने तदने पुष्पकद्वयम् । प्रत्यङ्गे पुष्पकश्चैव घिशालः सर्वकामदः ॥९॥
इति विशालः। रेखोवें तिलकं कुर्याच्छ्रङ्ग पञ्चाण्डक खलु । दुन्दुभि म प्रासादः कर्त्तव्यः सर्वदैवते ॥ १०॥ ..
इति दुन्दुभिः । रेखोचे च ततः शृङ्गं पञ्चाण्डकविभूषितम् । प्रान्तश्चेति समाख्यातः कर्तव्यः शान्तिमिच्छता ॥ ११ ॥
इति प्रान्तः। उरुमञ्जरी प्रत्यङ्गे तां कुर्यात् कुमुदोद्भवाम् । पुष्पर्क मञ्जरीस्थाने गरुडश्चेति संशितः ॥ १२ ॥
इति गरुडः।