________________
३९२ केशर्यादिसान्धारप्रासादनिर्णयाधिकारो नामकोनषष्ट्युत्तरशततमं सूत्रम् ॥
द्वाविंशत्या विभक्ते च द्विभागा भित्तिका भवेत् । भ्रमणी तत्समा चैव पुनर्भित्तिश्च तत्समा ॥ ५८॥ शतमूलपर्दैगर्भः कर्तव्यो लक्षणान्वितः। कर्णप्रतिरथरथोपरथा हि द्वि विस्तराः ॥ ५९ ॥ भद्रनन्दी भवेद् भागं वेदांशो भद्रविस्तरः। भागो भद्रे निर्गम: स्याच्छेषा वै पूर्वकल्पिताः ॥ ६०॥ कणे द्विशङ्गं तिलक शिखरं षोडशांशकम् । शृङ्गद्वयं प्रतिरथे प्रत्यक्षं च त्रिभागिकम् ॥ ६१ ॥ रथे शृङ्गत्रयं कुर्याच्छृङ्गोवें चोरुमारी । द्वे द्वे शृङ्गे उपरथे उर:शृङ्गं षडंशकम् ॥ १२ ॥ भद्रनन्द्यां भवेच्छृङ्ग वेदांशा चोरुमारी । द्विभागं भद्रशङ्गं च कर्तव्यं च मनोरमम् ॥ ६३ ॥ सप्तनवत्यण्डकयुक् कर्तव्यो लक्षणान्वितः । वृषभो नाम विख्यात ईश्वरस्य सदा प्रियः ॥ ६४ ॥
इति वषभः। कर्णे शङ्गत्रयं चैव पकोत्तरशताण्डकः ।। मेरुश्चापि समाख्यातः कर्तव्यश्च त्रिमूर्तिके ॥६५॥
___ इति मेरुप्रासादः । सर्वस्य हेममेरोश्च यत्पुण्यं त्रिः प्रदक्षिणैः । कृते शैलेष्टकाभिश्च सत्पुण्याल्लभतेऽधिकम् ॥ ६६ ॥ हरो हिरण्यगर्भश्च हरिर्दिनकरस्तथा । एते देवाः स्थिता मेरो नान्येषां स कदाचन ॥ ६७ ॥
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां केशर्यादिसाधारपासादनिर्णयाधिकारो नामैकोनषष्ट्युत्तरशततमं सूत्रम् ।।