________________
अपराजित पृच्छा
नन्द्यां च शृङ्गतिलके त्रिभागा चोरुमञ्जरी । द्विभागं भद्रशृङ्गं च अर्धे चार्थे च निर्गमः ॥ ४४ ॥
रत्नकूटस्तदा नाम शिवलिङ्गेषु कामदः । प्रशस्तः सर्वदेवेषु राज्ञां तु जयकारणम् ॥ ४५ ॥ इति रत्नकूटः ।
शृङ्गं तृतीयं रेखावें कर्तव्यं सर्वशोभनम् । वैय्र्यश्च तदा नाम कर्तव्यः सर्वदैवते ॥ ४६ ॥
इति वै यः ।
तथैव तिलकं नन्द्यां शृङ्गयुग्मं तु संस्थितम् । पद्मरागस्तदा नाम सर्वदेव सुखावहः ॥ ४७ ॥
इति पद्मरागः ।
रखोर्चे च ततः शृङ्गं कर्तव्यं सर्वशोभनम् । वज्रकश्चेति नामासौ शक्रादिसुरवल्लभः ॥ ४८ ॥ इति वज्रकः ।
भके विंशतिधा क्षेत्रे द्विभागः कर्णविस्तरः ।
भागं भवेन्नन्दी कर्णवत्प्ररथस्तथा ॥ ४९ ॥ पुनर्नन्दी सार्धभागं भागा वै भद्रनन्दिका । वेदांशो भेद्र विस्तार एकभागस्तु निर्गमः ॥ ५० ॥ द्विभागा बाह्यभित्तिश्च द्विभागा च भ्रमन्तिका । तत्समा मध्यभित्तिश्च गर्भोऽष्टशैः प्रकल्पितः ॥ ५१ ॥ कर्णे द्विशृङ्गं तिलकं रेखा द्विसप्तविस्तरा । नन्द्यां शृङ्गं च तिलकं प्रत्यङ्गे तु तदूर्ध्वतः ॥ ५२ ॥ शृङ्गत्रयं प्रतिकर्णे सप्तांशा चोरुमञ्जरी । नन्द्यां शृङ्गं च तिलकमुरः शृङ्गं पशकम् ॥ ५३ ॥ भद्रनन्द्यां तथा शृङ्गमिषुभा गोरुमञ्जरी । भद्रशृङ्गं द्विभागं स मुकुटोज्ज्वलउच्यते ॥ ५४ ॥
इति मुकुटोज्ज्वलः ।
रेखोर्ध्वे च ततः शृङ्गं कर्तव्यं सर्वकामदम् | ऐरावतस्तदा नाम शक्रादिसुरवल्लभः ॥ ५५ ॥
इत्यैरावतः ।
तथैव तिलकं कुर्याद् भद्रकर्णे तु शृङ्गकम् । राजहंसः समाख्यातः कर्तव्यो ब्रह्ममन्दिरे ॥ ५६ ॥ इति राजहंसः ।
रेखोर्ध्वे च ततः शृङ्गं कर्तव्यं सर्वकामदम् | पक्षिराजस्तदा नाम कर्तव्यः स श्रियः पतेः ॥ ५७ ॥
इति पक्षिराजः ।
३९१