________________
३९० केशर्यादिसान्धारप्रासादनिर्णयाधिकारो नामैकोनषष्ट्युत्तरशततमं सूत्रम् ॥
नन्द्रिकाप्रान्ततः शृङ्गं रेखाश्च तिलकोत्तमाः । कैलासश्च तदा नाम ईश्वरस्य सदाप्रियः ॥ २९ ॥
इति कैलासः ।
रेखोर्ध्वे तिलकं त्यक्का शृङ्गं तत्रैव कारयेत् । पृथ्वीजयस्तदा नाम कर्तव्यः सर्वदैवते ॥ ३० ॥
इति पृथ्वीजयः ।
षोडशांशक विस्तारे द्विभागः कर्णविस्तरः । नन्दिका चैकभागेन द्वयंशः प्रतिरथस्तथा ॥ ३१ ॥ पुनर्नन्दी भवेद् भागं भद्रं वेदांशविस्तरम् । समस्तं समनिष्कासं भद्रे भागो विनिर्गमः ॥ ३२ ॥ चतुःषष्ठांशको गर्भो वेष्टितो भित्तिभागतः । बाह्यभित्तिर्भवेद् भागा द्विभागा च भ्रमन्तिका ॥ ३३ ॥ कर्णे शृङ्गद्वयं कार्य शिखरं सूर्यविस्तरम् । नन्दिकायां तु तिलकं प्रत्यङ्गं च द्विभागिकम् ॥ ३४ ॥ शृङ्गद्वयं प्रतिरथे उर:शृङ्गं षडंशकम् । शृङ्गद्वयं नन्दिकायामुरः शृङ्गं युगांशकम् ॥ ३५ ॥ द्विभागं भद्रशृङ्गं तु शृङ्गार्थे चैव निर्गमः । कर्णे प्रतिरथे चैव ह्युकान्तरभूषितम् ॥ ३६ ॥ इन्द्रनीलस्तदा नाम इन्द्रादिसुरपूजितः । वल्लभः सर्वदेवानां शिवस्यापि विशेषतः ॥ ३७ ॥ इतीन्द्रनीलः ।
कर्णे नन्दी तथा शृङ्गं रेखोर्के तिलकं तथा । महानीलस्तदा नाम कर्तव्यः सर्वदैवते ॥ ३८ ॥
इति महानीलः ।
कार्य शृङ्गं च तिलके रेखा मध्ये प्रशस्यते । भूधरस्स समाख्यातः प्रासादो देवतालयः ॥ ३९ ॥ इति भूधरः ।
भूधरस्य यथा प्रोक्तं द्विभागं वर्द्धयेत् पुनः । पूर्ववद् दलसङ्ख्यायां भद्रपार्श्वे द्विनन्दिके ॥ ४० ॥ द्विभागं बाह्यभित्तिश्च शेषं पूर्वप्रकल्पितम् । तलच्छन्दमिति ख्यातमूर्ध्वमानमतः शृणु ॥ ४१ ॥ कर्णे द्विशृङ्गं तिलकं शिखरं सूर्यविस्तरम् । तिलके द्वे नन्दिकायां प्रत्यङ्गं तु द्विभागिकम् ॥ ४२ ॥ शृङ्गश्रयं प्रतिरथे षड्भागा चोरुमञ्जरी तिलके द्वे पुनर्नन्द्यामुरः शृङ्गं युगांशकम् ॥ ४३ ॥