________________
अपराजितपृच्छा कर्णिका चार्धमागेन भागार्ध भद्रनिर्गतम् । भागत्रयं च विस्तारे मुखभद्रं विधीयते ॥ १५ ॥ भद्रे चै तूद्गमाः पश्च कर्णेऽष्टशङ्गकानि च। श्रीवत्सशिखरं कार्य धण्टाकलशसंयुतम् ॥ १६ ॥
इति सर्वतोभद्र। श्रीवत्सेभद्रमारूढे रथिकोद्गमभूषिते । नन्दने नन्दति स्वामी दुरितं हरति ध्रुवम् ॥ १७ ॥
इति नन्दनः। तस्योर्ध्वं भवधिशग ? भद्रं तस्यानुरूपतः। नन्दिशालो गुणयुक्तः स्वरूपो लक्षणान्वितः ॥ १८॥
इति नन्दिशालः । त्रिभागं च भवेदभद्रं भद्रार्ध प्ररथस्तथा । कणे शङ्गद्वयं भने एकैकं प्ररथे तथा ॥ १९ ॥
इति नन्दीशः। द्वादशांशस्तु विस्तारो मूलगर्भस्तदर्धतः । भागभाग तु कर्तव्या द्वे भित्ती चान्धकारिका ॥ २०॥ कर्णप्ररथभद्रार्ध कारयेद द्विद्विभागतः।। प्ररथः समनिष्कासो भद्रं भागेन निर्गतम् ॥ २१ ॥ कणे द्वे भद्र के द्वे च चकं प्रतिरथे तथा।। सघण्टाकलशा रेखा रथिकोद्मभूषिता ॥ २२ ॥
इति मन्दर चतुर्दशांशविस्तार गर्भश्चाऽष्टांशविस्तरः। भागभाग भ्रमो भित्तिबोह्यभित्तस्तु भागिका ॥ २३ ॥ कणे शङ्गद्वयं कुर्याच्छिखरं चाष्टीवस्तरम् । प्ररथः कर्णमानेन तिलकं शङ्गकोपरि ॥ २४ ॥ नन्दिकायां च तिलक भद्रे शात्रयं भवेत् । श्रीवृक्षस्तु समाख्यातः कर्तव्यस्तु श्रियः पतेः ॥ २५ ॥
इति श्रीवृक्षः। कणे शङ्गत्रयं कुर्यात्प्ररथः पूर्वकल्पितः। अमृतोद्भवनामासौ प्रासादः सुरपूजितः ॥ २६ ॥
इत्यमृतोद्भवः। द्वे द्वे शङगे प्रतिरथे त्यमृतोद्भवसस्थितौ । हिमवान् द्वे उर:शो पूज्य: सुरनरोरगैः ॥ २७ ॥
इति हिमवान् प्रासादः । उर:शृङ्गात्रय भद्रे नन्दिका तिलकान्विता । हेमकूटस्तदा नाम प्रकर्तव्यस्त्रिमूर्तिके ॥ २८॥
इति हेमकूटः।