SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ (१५९) केशर्यादिसाधारप्रासादनिर्णयो नामै कोनषष्ट्युत्तरशततमं सूत्रम् ॥ विश्वकमवाच -- सान्धारांश्च ततो वक्ष्ये प्रासादान् पर्वतोपमान् । शिखरैर्विविधाकारैर्नैकाण्डैश्च विभूषितान् ॥ १ ॥ आद्यः पञ्चाण्डको ज्ञेयः केसरी नाम नामतः । तावदन्तं चतुर्बुद्धिर्यावदेकोत्तरं शतम् ॥ २ ॥ केशरी सर्वतोभद्रो नन्दनो नन्दशालिकः । नन्दीशो मन्दरचैव श्रीवत्सश्चामृतोद्भवः ॥ ३॥ हिमवान् हेमकूटश्च कैलासः पृथिवीजयः । इन्द्रनीलो महानीलो भूधरो रत्नकूटकः ॥ ४॥ वैडूर्यः पद्मरागञ्च वज्रको मुकुटोज्ज्वलः । ऐरावतो राजहंसो गरुडो वृषभस्तथा ॥ ५ ॥ मेरुः प्रासादराजस्स्याद् देवानामालयो हि सः । संयोगेन च सान्धारान् कथयामि यथार्थतः ॥ ६ ॥ दशहस्तादधस्तान्न प्रासादो भ्रमसंयुतः । पत्रिंशान्तं निरन्धाराः धाट्ये वेदादिहस्ततः ॥ ७ ॥ पञ्चविंशतिः सान्धाराः प्रयुक्ता वास्तुवेदिभिः । भ्रमहीनास्तु ये कार्याः शुद्धच्छन्देषु नागराः ॥ ८ ॥ चतुरश्रीकृते क्षेत्रे अष्टाष्टकविभाजिते । भागभागं भ्रमभित्तिद्विभागो देवतालयः ॥ ९ ॥ निरन्धारे पदा मित्तिरर्धं गर्भे प्रकल्पयेत् । मध्यच्छन्दश्च वेदाश्रो बाह्य कुम्भायतं शृणु ॥ १० ॥ क्षेत्रार्थे च भवेद् भद्रं भद्रार्ध कर्णविस्तरः । कर्णस्यार्धप्रमाणेन कर्तव्यो भद्रनिर्गमः ॥ ११ ॥ चतुष्कर्णेषु ख्यातानि श्रीवत्सशिखराणि च । रथिकोदमे च पञ्चैव केशरी गिरिजाप्रियः ॥ १२ ॥ इति केशरी । क्षेत्रे विभक्ते दशधा गर्भः षोडशकोष्ठकैः । भिति भ्रमं च भित्तिं च भागभागं प्रकल्पयेत् ॥ १३ ॥ द्विभागः कर्ण इत्युक्तो भद्रं षड्भागिकं तथा । निर्गतं चैकभागेन भागिका पार्श्वक्षोभणा ॥ १४ ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy