________________
पञ्चविंशतिलतिनप्रासादनिर्णयाधिकारो नामाष्टपञ्चाशदुत्तरशततम सूत्रम् ॥ ३८७
कर्णे भद्राणि देयानि नष्टाङ्गं मूलनासिकम् । मुक्तकोणः स विशेयः सर्वकामफलप्रदः ॥ २७ ॥
। इति मुक्तकोणः । उभौ प्रतिरथौ मध्ये पृष्ठतो वृत्तमालिखेत् । एवं विधः प्रकर्तव्यः स गजः सर्वकामदः ॥२८॥
इति गजः। वर्धमानस्य संस्थाने पार्श्व कुर्यात्तदूर्ध्वतः। कुर्याद्वृतौ शृङ्गकूटी पक्षिराजः सुखाश्रयः ॥ २९ ॥
इति गरुडः। प्रतिभद्रं च हंसे चेत् सिंहनामा स उच्यते। चतुरधास्तु कथिताः सर्वकामफलप्रदाः ॥ ३० ॥
इति सिंहः। गिरिकूट त्रिकूटश्च यदा गर्भायतो भवेत् । भवश्च विभवश्चैव त्रिलिङ्गाश्च प्रकीर्तिताः ॥ ३१॥
इति भवविभवौ। वृत्ते षोडश कर्णाद्याः बिना भद्रेश्च पद्मकः। विना कर्ण कलाभदैर्भवेन्मालाधरः स तु ॥ ३२॥
इति पद्ममालाधरौ। अष्टकों वज्रक: स्यात्स्वस्तिको भद्रसंयुतः। स्वस्तिके प्रतिभद्राणि शश्चाष्टाश्रसूत्रतः ॥ ३३ ॥
इति वज्रकस्वस्तिकशङ्कवः । मलयस्त्वायते पद्मे मालाधृङ् मकरध्वजः। लतिनाः कथितास्त्वेवं प्रासादाः पञ्चविंशतिः ॥ ३४॥
इति मलयमकरध्वजौ। इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्श्रीभुवनदेवाचार्योक्तापराजितन्छायां पञ्चविंशतिलतिनप्रासादनिर्णयाधिकारो नामाष्टपञ्चाशदुत्तरशततमं सूत्रम् ॥