________________
३८६
अपराजितपृच्छा स्कन्धकोशान्तरं चैव सप्तभागंश्चकारयेत् । ग्रीवा भागसमुत्सेधा सार्धमामलसारकम् ।। १५ ॥ पाच्छत्रं तथा सार्धं त्रिभागैः कलशोन्नतिः।। रुचकस्तु समाख्यातो भद्रकं चाप्यथ शृणु ॥ १६ ॥
इति रुचकः। द्विभागो भद्रविस्तार: पादषड्भागनिर्गतम् । भद्रकस्य समाख्याता शिखान्ते च रथाकृतिः॥ १७ ॥
इति भद्रकः। यार्यन्तरं तथा कुर्यान्मध्ये भद्रककर्णयोः । ततो हंसः स विज्ञेयः स्वरूपो लक्षणान्वितः ॥ १८ ॥
इति हंसः। वार्यन्तरं भद्रके तु भद्रमध्ये तु कारयेत् । हंसोद्भवस्तथा नाम ब्रह्मणश्च सुखावहः ॥ १९ ॥
इति हंसोद्भवः । यथा भद्रे तथा कर्णे कारयेदुदकान्तरम् । निर्गतं भागपादेन द्वौ स्तम्भौ कर्णभद्रयोः ॥२०॥
इति प्रतिसः । प्राग्नीवं चैव रुचके भद्रमानेन कारयेत् ।। निर्गमे नष्टकर्ण च स नन्दः सर्वकामदः ॥ २१॥
इति नन्दः। प्राग्नीवे तु पुरोऽलिन्दं कारयेद्विधिपूर्वकम् । नन्द्यावर्तस्तथा नाम कर्तव्यो देवतालयः ॥ २२ ॥
इति नन्द्यावर्तः। कक्षे जलान्तरं चैव स्तम्भेच्छाद्यविभूषितैः । धराधरश्च विशेयः सदेव्यमरवल्लभः ॥ २३॥
इति धराधरः। दशधा भाजिते क्षेत्रे द्विभागः कर्णविस्तरः। त्रिभागं च भवेद् भद्रं साधः प्रतिरथो मतः॥२४॥
इति वर्धमानः। कणे वार्यन्तरं कुर्याद गिरिकूट: स उच्यते। कर्णे प्रतिरथे चैव श्रीवत्लो वारिसंयुते ॥ २५॥
____इति गिरिक्टश्रीवत्सौ। वर्धमानस्य संस्थाने भद्रमध्ये जलान्तरम् । त्रिकूटः स तु विज्ञेयः कर्तव्यः शुभलक्षणः ॥ २६॥
इति त्रिकूदः।