________________
वैराग्यादिनगरप्रासादलक्षणाधिकारो नाम सप्तपञ्चाशदुत्तरशततमं सूत्रम् ॥
प्रतिरथोऽशो निष्कासे रथोऽधोऽर्थं च भद्रकम् । उदकान्तरयुक्तश्च पञ्चांशो गर्भविस्तरः ॥ २९ ॥ द्वे शृङ्गे तिलकं कर्णे शृङ्गे प्रतिरथे तथा । एकशृङ्गं चोपरथे उर:शृङ्गाणि द्वादश ॥ ३० ॥ पञ्चाशं मूलशिखरं घण्टा कलशभूषितम् । ईप्सितं लभते कर्ता यावदाभृतसम्प्लवम् || ३१ ॥ इति माहेन्द्रः । कर्णे शृङ्गत्रयं कुर्याद्रत्नशीर्षः स उच्यते ।
इति रत्नशीर्षः । त्यक्तैकशृङ्गं भद्रस्य मत्तालम्बं तु कारयेत् ॥ ३२ ॥ तस्यच्छाद्योर्ध्वकर्णे तु ततः शृङ्गाणि दापयेत् । सितशृङ्गस्तदा नाम्ना ईश्वरस्य सदा प्रियः ॥ ३३ ॥ इति सितशृङ्गः । तिलकानि च शृङ्गेषु तथोपरथकेषु च । रथप्रतिरथोध्वै च तिलकानि प्रकल्पयेत् ॥ ३४ ॥ शेषाः पञ्चाण्डशृङ्गाश्च भूधराख्यः स उच्यते !
इति भूधराख्यः । श्रीवत्सं चैव रेखार्धं भवेद् भुवनमण्डनः || ३५ ॥ इति भुवनमण्डनः ।
तथैव तिलकं कुर्याच्छृङ्गद्व्यमथोपरि । त्रलोक्यविजयश्चैव तच्छृङ्गैः क्षितिबल्लभः ॥ ३६ ॥
इति त्रैलोक्य विजय क्षितिवल्लभौ । इति सप्ताङ्गाः सप्त ।
महीधरं प्रवक्ष्येऽहं शतमूले विभाजिते । पदिकश्च ततः कर्णो भद्रं द्विपदमिश्रितम् ॥ ३७ ॥ कर्णस्योभयतस्त्रयस्त्रयः प्रतिरथास्तथा । निर्गमास्समभागैश्च भागार्थं भद्रनिर्गमः ॥ ३८ ॥ भागषङ्कायतोगर्भः सप्तभागोऽधयोच्यते ।
कर्णे प्रतिरथे भद्रे द्वे द्वे शृङ्गे च कारयेत् ॥ ३९ ॥ रथोपरथे तिलकं प्रत्यङ्गं च रथोपरि । मत्तलम्बयुतं भद्रं स्यान्महीधरसंज्ञकः ॥ ४० ॥ इति महीधरः ।
भद्रे शृङ्गं तृतीयं च कैलास: शङ्करप्रियः । भद्रे त्या रथे शृङ्गं नवमङ्गल उच्यते ॥ ४१ ॥ इति कैलासनवमङ्गलौ
३८३