SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ अपराजितपृच्छा तथा भद्रे पुनर्दद्यात् स भवेद् गन्धमादनः । त्यक्तं भद्रे रथे शङ्गं युक्तं सर्वाङ्गसुन्दरः ॥ ४२ ॥ । इति गन्धमादनसर्वाङ्गसुन्दरौ । भद्रे दद्यात्पुनः शृङ्गं विजयानन्दसंशकः। इति विजयानन्दः ।। मत्तालम्बयुते भद्रे उपशृङ्ग परित्यजेत् ॥ ४३ ॥ मत्तालम्बोभयकणे कुर्याच्छृङ्गद्वयं तथा । सर्वाङ्गतिलको नाम कर्तुः सन्तानभोगदः ॥४४॥ इति सर्वाङ्गतिलकः। उरुशङ्गं ततो दद्यान्मत्तालम्बसमन्वितः। महाभोगस्तदानाम सर्वकामफलप्रदः ॥ ४५ ॥ इति महाभोगः। रथे कर्णे प्रतिरथे शङ्गं चोपरथे तथा । मेरुरेष समाख्यातः सर्वदेवैः सुपूजितः ॥ ४६॥ इति मेरुः। इति नवाङ्गा नव ॥ सर्वस्वर्णमये मेरौ पुण्यं यत् त्रिः प्रदक्षिणः । शैले पक्केष्टके चैव तत्पुण्यं लभते नरः ॥ ४७ ।। सष्टावुक्ता ब्रह्मणा याः पूजा वै पञ्चविंशतिः। वैराजाद्याः समुत्पन्नाः सर्वे प्रासादसंशकाः ॥ ४८ ॥ इति सूत्रसन्तानगुगकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां वैराज्यादिनगरमासादलक्षणाधिकारो नाम सप्तपञ्चाशदुत्तरशततमं सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy