________________
अपराजितपृच्छा
सार्धभागस्तु विस्तार एवं भद्रं विधीयते । कर्णेष्वेकैकशृङ्गं च भद्रे द्वे उरुमञ्जरी ॥ १६ ॥ शिखरं व्यंशविस्तारं पादोन वेदमुच्छ्रितम् । पद्मकोशोद्भवसूत्रे पञ्चांश: कलशोऽन्तिके ॥ १७ ॥ रथिका तु यदा भद्रे नन्दनः सर्वकामदः । इह नन्दति तत्कर्ता स्वर्ग वा त्रिदशैः सह ॥ १८॥
इति नन्दनः। मुखभद्रे प्रतिभद्रमुद्गमो रथिकोपरि । कर्णशृङ्गे सिंहकर्णः सिंहनामा स उच्यते ॥ १९ ॥ देवानां तु प्रकर्तव्यः सिंहस्तत्रैव शाश्वतः। तुभ्येदिरिसुता तस्य सौभाग्यधनपुत्रदा ॥ २०॥
इति सिंहः। कणे शङ्गे तु दातव्यं पञ्चाण्डकविभूषितम् । तथा श्रीनन्दनो नाम कर्तुः सन्तानवर्द्धकः ॥ २१ ॥
इति नन्दनः ॥ इति व्यङ्गास्त्रयः॥ षड्भागायते भाग कर्ण प्रतिरथं तथा। द्विभागं च भवेदू भद्रं निर्गमश्चार्धभागतः ॥ २२ ॥ प्रतिरथं भागनिष्कासं गो वेदांशकैः पृथुः । द्वे द्वे कर्णे तथा भद्रे शङ्गं प्रतिरथेऽथवा ॥ २३ ॥ एवंविधः प्रकर्तव्यो मन्दरस्तु शिवात्मजः। मेरुपुण्यार्धकार्धे तु लभ्यते मन्दरे कृते ॥ २४ ॥
इति मन्दरः । भद्रे शृङ्गत्रयं कुर्यान्मलयो नाम नामतः ।
इति मलयः। त्यक्तकभद्रशृङ्गं तु प्रत्यङ्गानि प्रदापयेत् ॥ २५ ॥ प्रतिरथोर्ध्वतिलको विमान: सर्वकामदः ।
इति विमानः। भद्रे तृतीयोरुशृङ्ग स भवेत् सुविशालकः ॥ २६ ॥
इति सुविशालकः । त्यक्तकभद्रशृङ्गं तु विक्रमः स्यात्प्रतिरथे। कणे चाष्टदलं कुर्यान्नाम्ना त्रैलोक्यभूषणः ।। २७ ।।
इति त्रैलोक्य भूषण: ॥ इति पञ्चाङ्गाः पञ्च ।। अष्टधा चायते क्षेत्रे भुजकर्णविशोधिते । भागं भागं च भद्रार्ध कर्णः प्रतिरथो रथः ॥ २८ ॥