________________
(१५७) वैराज्यादिनगरप्रासादलक्षणं सप्तपञ्चाशदुत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच---
वैराज्यमथ वक्ष्यामि प्रासाई सर्वकामदम् । विश्राम्यन्तीशविष्णू च ब्रह्मा यत्र रविस्तथा ॥१॥ एकद्वारं चतुर त्रिद्वारं च तथैव च । द्वारद्वयं च कर्तव्यं दूषणं न कदाचन ॥२॥ पूर्वोत्तरयाम्ये चैव पूर्वापरोत्तरे तथा। याम्यापरोत्तरे शस्तं त्रिद्वारं त्रिविधं मतम् ॥ ३॥ पूर्वापरे स्याद् द्विद्वारं दूषयेच्च याम्योत्तरे।। एकद्वारं च माहेन्द्रयां चतुरं चतुर्दिशम् ॥ ४॥ पूर्वे च भक्तिदं द्वारं मुक्तिदं वरुणोद्गतम् । याम्योत्तरे शिवे द्वारे कृते दोषो महद्भयम् ॥ ५॥ एकवारं च माहेन्यामन्यथा दोषदं भवेत् । भद्रं सर्वत्र कल्याणं चतुद्वारे शिवालये ॥६॥ ब्रह्मविष्णुरवीणां च कुर्यारोक्तमेव हि । समोसरणे च जैनेन्द्रे दिशा दोषो न विद्यते ॥ ७ ॥ चतुरधं समं शुद्ध षोडशांशोपकल्पितम् । वेदांशो गर्भ आख्यातो भित्तिः सूर्यपदोद्भवा ॥ ८॥ भ्रमनिर्माणतः स्तम्भैः सीमा प्राग्नीवकाग्रतः। चतुर्भागोन्नता भित्तिः सपादा शिखरोन्नतिः ॥९॥ चतुर्गुणैः पृथक्सूत्रैः पद्मकोशं समालिखेत्।। स्कन्धकोशान्तरं चैव सप्तभागैश्च कारयेत् ॥१०॥ ग्रीवा भागा समुत्सेधे सार्धमामलसारकम् । पद्माच्छत्र तथा सार्धे त्रिभागः कलशोऽन्तरे ॥ ११ ॥ शुकनासान सिंहकर्णान् चतुर्दिक्षु प्रकल्पयेत् । जगती चै पञ्चगुणा कामदा चतुरानना ॥ १२ ॥ इमं वैराज्यकं देवप्रासादं कारयेत्तु यः।। एकविंशतिस्वर्गाणां लभते राज्यभीप्सितम् ॥ १३॥
इति वैराज्यप्रासादः । वैराज्यस्य च संस्थाने नन्दनं कारयेच्छुभम् । कर्ण तथा चैकभागमुदकान्तरभूषितम् ॥ १४ ॥ द्विभागं च भवेद् भद्रमर्धभागेन् निर्गतम् । भागार्धं पार्श्वसूत्रं तु निर्गमस्तत्समो भवेत् ॥ १५ ॥