________________
(१५५) वैराज्यादिप्रासादलक्षणं पञ्चपञ्चाशदुत्तरशततमं सूत्रम् ।।
विश्वकर्मोवाच
अथो वक्ष्ये च वैराज्यं प्रासादं सर्वकामदम् । वल्लभं सर्वदेवानां शिवस्यापि विशेषतः ॥ १॥ अनन्तपुण्यदां चैवं पूजां वै ब्रह्मणोदिताम् । तेषामनुक्रमं वक्ष्ये शणु चैकानमानसः ॥२॥ चतुरधीकृते क्षेत्रे तथा षोडशभाजिते । तस्य मध्यं चतुर्भागैर्गर्भ सूत्रैश्च कारयेत् ॥ ३॥ द्वादशस्वथ शेषेषु बाह्ये भित्तीः प्रकल्पयेत् । भित्तिागोच्छ्रयं चैव चतुर्भागैश्च कारयेत् ॥ ४ ॥ भित्त्युच्छ्रयो जन्मतश्च सपादः शिखरोदयः । चतुर्गुणैः पृथक्सूत्रैः पद्मकोशं समालिखेत् ॥५॥ स्कन्धकोशान्तरं चैव सप्तभागैश्च भाजयेत् । एकभागा भवेद् ग्रीवा सार्धं चामललारकम् ॥ ६॥ पद्मपत्रं तथा सार्धं त्रिभागैः कलशोन्नतिः । चतुरेषु प्राग्नीवा गर्भतुलाश्च गर्भतः ॥ ७ ॥ हेमरत्नमयैःस्तम्भैः शुक्लपट्टः सुच्छाद्यकैः । मुक्तादिभिश्च खचितैर्वितानैर्दिव्यभूषणैः ॥ ८॥ स्फाटिकैर्विविधैर्जीलैर्हिरण्यमणिवेदिकैः। सिंहकर्णैः सुशोभाढयैर्नियूहाच्छाद्यकर्णकैः ॥९॥ शिखरैहेमरत्नाढ्यैर्घण्टाकलशकान्वितैः। गजाश्वतरपीठाद्यैः सर्वलक्षणसम्युतैः ॥ १०॥ लोकनाथेऽति दृष्टव्या आदौ वैराज्यसम्भवाः । वैराज्या वै पञ्चशतान्यष्टाात्युत्तराणि च ॥ ११ ॥
इति वैराज्यप्रासादलक्षणम् । आयामः पञ्चभागैश्च चतुर्भागैश्च विस्तरः। याम्योत्तरे उर:शङ्गाण्यूर्व त्रिकलशान्वितम् ॥ १२ ॥ सिंहकर्णपुर: पृष्टे प्राग्ग्रीवा द्वारबाह्यतः । पूर्वालङ्कारशोभाढ्यः पुष्पकः सर्वकामदः ॥ १३ ॥ पुष्पकाच समुत्पन्नं प्रासादानां शतत्रयम् । चतुरस्रायता: प्रोक्ता आद्येऽन्ते सृष्टिकर्मणा ॥ १४ ॥
इति पुष्पकप्रासादलक्षणम् ।