________________
अपराजितपृच्छा एकहस्तं समारभ्य पञ्चाशद्धस्तकावधि । हस्तान्तरैस्ततो भेदा हस्ता(श्च न संशयः ॥ १६ ॥ हस्तपादेव्यङ्गुलैश्च कुर्यादालकक्रमम् । प्रयुक्ता विविधारच्छन्दा: प्रमाणं शास्त्रमानतः ॥ १७ ॥ इषुच्छन्दाष्टजातीनां नामसङ्ख्या च लक्षणम् । तथा तदूर्ध्वमार्गेषु तलेष्वभिहितं यथा ॥ १८ ॥ सख्याताश्च तलच्छन्दभक्तिभागा अनेकधाः । चतुर्भागादिकं मध्यं सूर्योत्तरशतान्तकम् ॥ १९ ॥ भागान्तरे ततो भेदा ग्रहाधिकशतं विदुः । तत्रोत्पन्ना यथा भेदा उपाङ्गानां तथैव च ॥ २० ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां वैराज्योद्भवप्रासादनिर्णयाधिकारो नाम चतुष्पञ्चाशदुत्तरशततम सुत्रम् ॥