________________
(१५४) वैराज्योद्भवप्रासादनिर्णयो नाम चतुष्पश्चाशदुत्तरशततमं सूत्रम्॥
विश्वकर्मोवाच--
अथातः संप्रवक्ष्यामि प्रासादान क्षेत्रसंस्थितान् । तेषां च कथयिष्यामि भेदान् पञ्च समीरितान् ॥ १॥ विमानाः प्रथम पञ्च स्वयं ब्रह्मप्रभाषिताः। मनोल्हादकरा होते तथा स्वच्छन्दचारिणः ॥२॥ वैराज्य: प्रथमो नाम पुष्पकश्च द्वितीयकः । कैलासो मणिकस्तत्र तथा चैव त्रिविष्टपः ॥३॥ वैराज्यं चतुरथं च कैलासं वृत्तमेव च । पुष्पकं कारयेत्प्राज्ञश्चतुरश्रायतं तथा ।। ४।। वृत्तायतं चैव कुर्यान्मणिकं तत्र बुद्धिमान् । त्रिविष्टपमथाष्टानं सर्वदेवालयेषु च ॥५॥ प्रयुक्ता विधितश्च्छन्दा; सूत्रमागैरनेकधा। वैराज्यकुलसम्भूताः सब प्रासादसंज्ञकाः ॥ ६॥ प्रासादानां समस्तानां वैराज्या देवसम्भवाः । भवन्ति चेषुभेदा वै वैराज्योद्भवसद्मनाम् ॥ ७ ॥ प्रासादा चै पञ्चशतान्यष्टाशीत्यधिकानि च । सर्वेषां मूलयोनिस्तु वैराज्यं नाम कीर्तितः ॥ ८॥ चतुरश्रायतच्छन्दै पुष्पकादिशतत्रयम् । अन्ये पञ्चाशतान्येवं वृत्ताः कैलाससम्भवाः ॥९॥ वृत्तायतास्सार्धशतसङ्ख्यका मणिकोद्भवाः । विष्टपास्तथाष्टाधा मताः सार्धशतत्रयम् ॥१०॥ सख्ययाष्टाशीत्युत्तराण्यष्टादशशतानि च । उक्ताः श्रेष्ठा ब्रह्मणश्च वैराज्यकुलरूम्भवाः ॥ ११ ॥ तन्मध्ये मिश्रकाश्चैव शतं च द्वादशोत्तरम् । स्युर्विंशतिशतान्येवं प्रासादा मिश्रसम्युताः ॥ १२ ॥ पञ्चाशत् सहस्त्राणि पञ्चविंशतिधाः पृथक् । एकैके तेऽष्टधा भिन्नाश्चतुर्लक्षमितास्तथा ॥ १३ ॥ चतुरधाश्च वैराज्या वृत्ताः कैलाससम्भवाः ।। चतुरश्रायताः सर्वे पुष्पाख्यकुलजातकाः ॥ १४ ॥ वत्तायता मणिकजा अष्टामाश्च त्रिविष्टपाः । इषुभेदलमुत्पन्नाः प्रासादा; सर्वकामदाः ॥ १५॥