________________
अपराजितपृच्छा नन्दा भद्रा जया पूर्णा विजया पञ्चमी शिला । मङ्गला ह्यजिताऽपराजिता च धरणीभवा ॥ १५ ॥ शिलां निवेशयेत्पूर्व पश्चात्पीठनिबन्धनम् । जवायां शिखरे चैव वेदिका कलशान्तरे ॥ १६ ॥ शिलोपरि समस्तं तच्छिलाधश्चोपपीठकम् । इति युक्तिर्विधातव्या शिलानां शुभलक्षणा ॥ १७ ॥ अध:खाते सम्पुटेषु निधिकुम्भांश्च योजयेत् । पानश्चाथ महापद्मः शङ्खो मकरकच्छपौ ॥ १८॥ मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नय । सुमद्रश्च विमद्रश्च सुनन्दः पुष्पदन्तकः ॥ १९ ।। जयोऽथ विजयश्चैवं कुम्भः पूर्णस्तथोत्तमः । इत्येवं नवकुम्भाश्च नियोज्यास्तत्र वै क्रमात् ।। २० ।। अथातः संप्रवक्ष्यामि पुरुषस्य प्रवेशनम् । न्यसेद् देवालयेष्वेवं जीवस्थानफलं भवेत् ॥ २१ ॥ छादनोपप्रवेशेषु शृङ्गमध्येऽथवोपरि । शुकनासावसानेषु वेचूच भूमिकान्तरे ॥ २२ ॥ मध्यगर्भे विधातव्यो हृदयवर्णको विधिः । हंसतुली ततो कुर्यात् ताम्रपर्यङ्कसंस्थिताम् ॥ २३ ॥ शयनं चापि निर्दिष्टं पद्मं वै दक्षिणे करे । त्रिपताकं कर:वाम कारयेद्धदि संस्थितम् ॥ २४ ॥ प्रमाणं तस्य वक्ष्यामि प्रासादादौ समस्तकं । यावच्छताध हस्तादेः कल्पयेञ्च यथाक्रमम् ।। २५ ॥ वृद्धिरर्धाङ्गलाद्धस्ते यावन्मेरुं प्रकल्पयेत् । एवंविधं प्रकर्तव्यं सर्वकामफलप्रदम् ॥ २६ ॥ हेमजं तारजं वापि ताम्रजं वापि भागशः । कलशे चाम्बुपूणे तु सौवर्ण पुरुषं न्यसेत् ॥ २७ ।। पर्यकस्य चतुःपत्सु कुम्भाश्चत्वार एव च । हिरण्यनिधिसंयुक्ता आत्ममुद्राभिरडिताः ॥ २८ ॥ एवमारोपयेद् देवं यथोक्तं वास्तुशासने । तस्य नैव भवेद् दुःखं यावदाभूतसंप्लवम् ।। २९ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां .
शिलाकूर्मपुरुषप्रमाणाधिकारो नाम त्रिपञ्चाशदुत्तरशततमं सूत्रम् ।।