________________
(१५३) शिलाकूर्मपुरुषप्रमाणं त्रिपश्चाशदुत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच--
एकहस्ते तु प्रासादे कूर्मश्चार्धाङ्गुलः स्मृतः । अर्धवृद्धिः प्रकर्तव्या प्रश्चदशहस्तावधि ॥१॥ एकविंशतिहस्तान्तं पादवृद्धिः प्रकीर्तिता। तदर्धन पुनर्वृद्धिमन्वगुलः शतार्द्ध के ॥ २॥ एतन्मानं मध्यमानं कनिष्ठं पावर्जितम् । पादाधिकं भवेज्ज्येष्ठं कम मानं निधोदितम् ॥ ३॥ हैमो रौप्यश्च कर्तव्यः सर्वपापप्रणाशनः । करोति य इमं कूर्म स यशफलमाप्नुयात् ॥४॥ स्नान पञ्चामृतं कार्य कूर्मस्य तु यथाविधि । अर्चयित्वा प्रयत्न सुधूपामोदपुष्पकैः ॥ ५॥ तिलैर्यवैस्तथा होम पूर्णाहुतिं प्रदापयेत् । निवेशयेत्ततः कूर्म वेदवादिवमङ्गलैः ॥ ६॥
इति कूर्मप्रमाणम् । अतः परं प्रवक्ष्यामि शिला: प्रासादमानतः। एकहस्तं समारभ्य पञ्चाशद्धस्तकावधि ॥ ७ ॥ एकहस्ते तु प्रासादे शिला वेदाङ्गुला भवेत् । षडङ्गुला द्विहस्ते च त्रिहस्ते च ग्रहाङ्गुला ॥ ८॥ चतुर्हस्ते च प्रासादे शिला स्याद् द्वादशाङ्गला। तृतीयांशोदयः कार्यों हस्तादौ च युगान्ततः ॥९॥ ततः परेऽष्टहस्तान्तं वृद्धिख्यङ्गुलतो भवेत् । पुनदर्थङ्गलतो वृद्धिः पञ्चाशद्धस्तकावधि ॥ १० ॥ पादेन चोच्छ्रिता शस्ता तां कुर्यात् पङ्कजान्विताम् । कर्तृकावरका राजा प्रजा नन्दन्ति वै चिरम् ॥ ११ ॥ अष्टाङ्गलोच्छ्रिता शस्ता वेदाधा करयोगतः। शस्तं मान शैलजे स्थाष्टिके च तदर्धतः ॥ १२ ॥ शैलजे शैलजा कार्या ऐष्टिके चेष्टिकामयी। तत् पिण्डाने भवेत्पनं शिला पिण्डाष्टमांशकम् ॥ १३ ॥ पनपत्रयुता चैव नन्द्यावर्ती व स्वस्तिका । तदेवायुधसंहाच पीठबन्धवशानुगा ॥१४॥