________________
३७३
अपराजितपृच्छा कदलीस्तम्भशोभाढयस्तोरणैर्दिव्यवस्त्रकैः । नैवेद्यैः खण्डपक्कैश्च फलपुष्पैरनेकधा ॥१५॥ सधूपामोदबहुलैर्दीपमालादिसंकुलैः । आरात्रिकं ततः कृत्वा गीतनृत्यसुवाद्यकैः ॥ १६॥ अथ चाऽनन्तरं वत्स आत्मानं विनिवेदयेत् ।। भार्यया युक्त एवं च दण्डवत्प्रणमेद् भुवि ॥ १७ ॥ आत्मवित्तानुसारेण देवे दद्याच्च निग्रहम् । भार्यायुक्तश्च देवाग्रे निग्रहं तु समुच्चरेत् ॥ १८ ॥ उभाभ्यां च समुत्थेयं गुरोरेवाज्ञया तदा । इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
गुरुयागनिर्णयाधिकारो नाम द्विपञ्चाशदुत्तरशततमं सूत्रम् ।।